________________
आगम
(४०)
प्रत
सूत्रांक
[H]
दीप
अनुक्रम
H
श्रीभाव
श्यक मल
य० वृत्तौ उपोद्घाते
॥३७४ ॥
“आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) भाग - ३
अध्ययनं [-], निर्युक्तिः [७५६ ], वि० भा० गाथा [ २२१६], भाष्यं [ १३७... ]. मूलं [- / गाथा-] नदीपरत्नसागरेण संकलित..आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
क्षपूर्वकत्वाच्छेषप्रमाणवर्गस्य, ततः सामान्यमेव परमार्थसत् न विशेषा इति सङ्ग्रहः, एष च सामान्यमात्राभ्युपगमपरत्वान्मिथ्यादृष्टिः सुप्रतीत एव ।
वच विणिच्छयत्थं वचहारो सङ्घदवेसु || ७५६ ।।
जति - गच्छति निः- आधिक्येन चयनं चयः, अधिक्रश्चयो निश्चयः- सामान्यः विगतो निश्चयो विनिश्चयः - सामा न्याभावः तदर्थे तन्निमित्तं, सामान्याभावायेति भावार्थः, व्यवहारो नयः क्व ? - 'सर्वद्रव्येषु' सर्वद्रव्यविषये, व्युत्पत्तिश्चैवं व्यवहरणं व्यवहारः, यदिवा विशेषतोऽवहियते - निराक्रियते सामान्यमनेनेति व्यवहारः, विशेषप्रतिपादनपरो व्यवहारनय इत्यर्थः, स ह्येवं विचारयति - सदित्युक्तो हि घटपटाद्यन्यतमो विशेष एव कोऽप्यनिर्दिष्टस्वरूपः प्रतीयते, न | सङ्ग्रहनयसंमतं सामान्यं, तस्यार्थक्रियासामर्थ्याविकलतया सकललोकव्यवहारपथातीतत्वात् ततो विशेष एवास्ति न सामान्यं, इतश्च न सामान्यम्, उपलब्धिलक्षणप्राप्तस्य तस्यानुपलब्धेः इह यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते तदसदिति व्यवहर्त्तव्यं, यथा क्वचित् केवलभूतलप्रदेशे घटः, न चोपलभ्यते उपलब्धिलक्षणप्राप्तं सत् सङ्ग्रहनयसम्मतं सामान्यमिति स्वभावानुपलब्धिः, अपिच - सामान्यं विशेषेभ्यो व्यतिरिक्तं वा स्यादव्यतिरिक्तं वा ?, यद्याद्यः पक्षस्तहिं सामान्यस्याभाव एव, विशेषव्यतिरिक्तस्य सामान्यस्यासम्भवात्, नहि मुकुलितार्द्धमुकुलितादिविशेषविकलं किमपि गगनकुसुममस्तीति परिभावनीयमेतत्, अथाव्यतिरिक्तं ततो विशेषा एव, न सामान्यं, तदव्यतिरिक्तत्वात्, तत्स्वरूपवत् उक्तं च"अन्नमणन्नं च मयं सामण्णं १ जुइ बिसेसतोऽणनं । तम्मत्तमण्गमहवा नत्थि तयं निविसेसंति ॥ १ ॥” ( वि० २२१६)
For Private & Personal Use Only
~164~
संग्रहञ्यदहारौ
॥ ३७४॥
brary.org