SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-३ अध्ययनं [-], निर्युक्तिः [७४५-७४६ ], वि० भा० गाथा [-], भाष्यं [ १३७...], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः Jain Education International गाथाद्वयस्यापि व्याख्या प्राग्वत्, इत्थं तीर्थकरस्य सामायिक भाषणकारणमभिधायाधना गणभृतामाशङ्काद्वारेण तच्छ्रवणकारणं प्रतिपादयन्नाह - गोममाई सामाइयं तु किं कारणं निसार्मेति ? | नाणस्स तं तु सुंदरमंगुलभावाण उवलद्धी ॥ ७४५ ॥ गौतमादयो गणधराः 'किं कारणं' किं निमित्तं किं प्रयोजनं सामायिकं निशमयन्ति-शृण्वन्ति १, उच्यते- 'नाणस्स'त्ति प्राकृतत्वाच्चतुर्थ्यर्थे षष्ठी, ततश्च ज्ञानाय - ज्ञानार्थ, तादर्थे चतुर्थी, तेषां हि भगवद्वदनविनिर्गत सामायिकशब्दान् श्रुत्वा तदर्थविषयं ज्ञानमुत्पद्यते, ततो ज्ञानार्थं शृण्वन्ति तत्तु ज्ञानं सुन्दरमङ्गलभावानां शुभेतरपदार्थानां 'उबलद्धी' ति उपब्धये उपलब्धिनिमित्तं सा च सुन्दरम कुलभावोपलब्धिः प्रवृत्तिनिवृत्त्योः कारणम् ॥ आह च होइ पवितिनिविन्ती संजमतव पावकम्मअग्गहणं । कम्मविवेगो अ तहा कारणमसरीरया चैव ॥ ७४६ ॥ शुभेतरभावपरिज्ञानाद्भवतः प्रवृत्तिनिवृत्ती, शुभेषु प्रवृत्तिर्भवति इतरेषु निवृत्तिरिति भावः ते च प्रवृत्तिनिवृत्ती संयमतपसोः कारणं, प्रवृत्तिस्तपसः कारणं निवृत्तिः संयमस्येति हृदयं तत्र निवृत्तिकारणकत्वेऽपि संयमस्य प्रागुपादानेन पूर्वकर्मागमनिरोधेऽस्य कारणप्राधान्यख्यापनार्थं, तत्पूर्वकं च वस्तुतः सफलं तप इति ज्ञापनार्थे च संयमतपःकारणभूतप्रवृत्तिनिवृत्त्योस्तु प्रयोजनोपन्यासः संयमे सत्यपि तपसि प्रवृत्तिः कार्येत्यमुनांशेन तपसः प्राधान्यख्यापनार्थः इत्यलं प्र सङ्गेन तयोश्च संयमतपसोः कारणं निमित्तं प्रयोजनं यथासङ्ख्यं 'पावकम्म अग्गहणं' ति पापकर्मा ग्रहणं तथा कर्मविवेकश्च, For Private & Personal Use Only ~ 147~ www.janbrary.org
SR No.007203
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages316
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy