________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-३
अध्ययनं [-], निर्युक्तिः [ ७३१-७३२], वि० भा० गाथा [२०७१ ], भाष्यं [ १३७...]. मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
सादिः सपर्यवसान इत्येवं चतुर्भङ्गविभङ्गभावनाऽत्र कार्या, केषामित्याह - औदयिकादीनां भावानां ततश्च योऽसौ विभागभावनाविषयस्तं जानीहि भावकालम्, इयमक्षरगमनिका, भावार्थस्त्वयं-ओदयिको भावः सादिः सपर्यवसानः सादिरपर्यवसानः अनादिः सपर्यवसानः अनादिरपर्यवसानः, एवमौ पशमिकादिष्वपि चतुर्भङ्गिका द्रष्टव्या, इयं पुनरत्र विभागभावना-औदयिकश्चतुर्भङ्गिकायां द्वितीयो भङ्गो न घटते, शेषास्तु घटन्ते, तेषामयं विषयः - नारकादीनां नारकादिभवः खल्वौदयिको भावः सादिसपर्यवसानः, मिथ्यात्वादयो भव्यानामौदयिकोऽनादि सपर्यवसानः, स एवाभव्यानां चरमभङ्गे इत्युक्त औदयिकः, औपशमिक चतुर्भङ्गिकायामाद्य एव भङ्गो घटते, तद्व्यादयस्तु शून्याः, प्रथमभङ्गस्त्वेवम्-औपश| मिकसम्यक्त्वादिरौपशमिको भावः सादिः सपर्यवसान इत्युक्त औपशमिकः, क्षायिकचतुर्भङ्गिकायां तु तृतीयचतुर्थी भङ्गौ न घटेते, प्रथमद्वितीयौ तु घटेते, तथाहि क्षायिकं चारित्रं दानादिलब्धिपञ्चकं च क्षायिको भावः सादिः सपर्यवसानः, सिद्धस्य चारित्र्यचारित्र्यादिविकल्पातीतत्वात्, क्षायिकज्ञानदर्शने तु सादिअपर्यवसानः, अन्ये तु द्वितीयभङ्ग एव सर्वमिदं प्रतिपादयन्ति, उक्तः क्षायिकः, क्षायोपशमिकचतुर्भङ्गिकायां द्वितीयभङ्गाभावः, शेषभङ्गानामयं विषयः- चत्वारि ज्ञानानि क्षायोपशमिको भावः सादिः सपर्यवसानः, मत्यज्ञानश्रुताज्ञाने भव्यानामनादिः सपर्यवसानः, एते एवाभव्यानामनादिरपर्यवसानः, उक्तः क्षायोपशमिकः, पारणामिक चतुर्भङ्गिकायामपि द्वितीयभङ्गाभावः, शेषभङ्गकानामयं गोचर:- व्यणुका| दिपारिणामिको भावः सादिसपर्यवसानः, भव्यत्वं भव्यानामनादिसपर्यवसानः, जीवत्वं पुनरनादिरपर्यवसानः, उक्तः पारि णामिकः, उकार्यसङ्ग्रहगाथा जो मारगाइ भावो तह मिच्छतादओऽवि भषाणं । ते चैवाभवाणं ओदइए बिइयवज्जोऽयं
Jain Education International
For Pevate & Personal Use Only
~139~
www.janbrary.org