________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
H
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः+वृत्तिः) भाग-३ अध्ययनं [ - ], निर्युक्तिः [ ७३० ], वि०भा० गाथा [ २०६८, २०७० ],
मा. ६१
भाष्यं [१३७...], मूलं [- / गाथा-] रत्नसागरेण संकलित..आगमसूत्र [४०], मूलसूत्र [१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
स्वाध्यायकरणकालः, अकाले - अप्रस्तावे मरणं कुर्वतेति, तदनेन कालशब्दस्य मरणवाचित्वमुपदर्शितं ॥ सम्प्रति प्रमाणकालः प्रतिपाद्यः, तत्राद्धाकालविशेष एव मनुष्यलोकान्तर्वतीं विशिष्टव्यवहारहेतुरहर्निशारूपः प्रमाणकालः, तथा चाह भाष्यकृत् -"अद्धाकालविसेसो पत्थयमाणं व माणुसे खेत्ते । सो संववहारत्थं पमाणकालो अहोरतं ॥१॥ (२०६८)” अत्र 'पत्थयमाणं वत्ति यथा सामान्येन मानावयवभूतं प्रस्थकरूपं मानं संव्यवहाराय कल्प्यते तथाऽहर्निशारूपः प्रमाणकालोऽद्धाकालस्यैव विशेषः सन् पृथक् संव्यवहाराय प्ररूप्यते इति । अमुमेव प्रमाणकालं भेदत आहदुविहो पमाणकालो दिवसपमाणं च होइ राई अ । चउपोरिसिओ दिवसो राई चउपोरिसी चेव ॥ ७३० ॥
प्रमीयतेऽनेन जीवादीनामायुःप्रभृतिरिति प्रमाणं तदेव कालः प्रमाणकालः, स द्विविधः, दिवसप्रमाणं भवति रात्रिश्च दिवसप्रमाणकालो रात्रिश्च चतुष्पौरुषीको दिवसो रात्रिश्च चतुष्पौरुषी, पौरूषीप्रमाणं चानियतं, दिवसनिशा हा निवृद्धिभावात्, तत्र यदा सर्वजघन्यो द्वादशमुत्तों दिवसस्तदा सर्वोत्कृष्टाऽष्टादशमुहूर्त्ता रात्रिः, तदा च दिवसस्य पौरुषी मुहूर्त्तत्रयमाना रात्रेश्व अर्द्धपथममुहूर्त्तप्रमिता, यदा तु सर्वोत्कृष्टोऽष्टादशमुहूर्त्ता दिवसस्तदा सर्वजधन्या द्वादशमुहूर्त्ता रात्रिः, तदा च पौरुषी दिवसस्यार्द्धपञ्चममुहूर्त्तमाना रात्रेश्च मुहूर्त्तत्रयमाना, एवं दिवसस्य रात्रेर्वा पौरुष्यखयो मुहूर्त्ता जघन्यं मानं अर्द्धपक्षमा उत्कृष्टं, उक्तं च-- "पोरिसिमाणमनिययं दिवसनिसाबुद्धिहाणिभावातो । हीणं तिन्नि मुहुत्तस्सद्धपञ्चमा माण| मुकोसं ॥ १ ॥ (वि.२०७०)” सर्वजघन्यश्च दिवसः सर्वोत्कृष्टा च रात्रिर्दक्षिणायनचरमदिवसे सर्वोत्कृष्टो दिवसः सर्वजधन्या च रात्रिरुतरायने, प्रथमदिवसादारभ्य प्रतिचरमवासरशेषेषु तु दिवसेषु दक्षिणायने प्रथमदिवसादारभ्य प्रतिदिवसं
अत्र 'प्रमाण-काल 'स्य वर्णनं क्रियते
For Pivate & Personal Use Only
~137~
janelibrary.org