SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H आवश्यवे श्रीमदयसमवसरण | ॥ ३४७ ॥ “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-३ अध्ययनं [-], निर्युक्तिः [ ६८८], वि० भा० गाथा [-] भाष्यं [१३३] मूलं [- /गाथा -] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र [१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः माच्छादने — स्थगने भवति मित्ययं वर्णो मर्यादायां- चारित्ररूपायां स्थितोऽहमित्यस्यार्थस्याभिधायकः, दुरित्ययं वर्णो जुगुप्से - निन्दामि दुष्कृतकारिणमात्मानमित्यस्मिन्नर्थे वर्त्तते, क इत्ययं वर्णः कृतं मया पापमित्येत्रमभ्युपगमार्थे वर्त्तते, ड इत्ययं वणों डेवेमि - लंघयामि अतिक्रामामि तत् कृतं पापं, केनेत्याह-उपशमेनेत्यस्मिन्नर्थे, एपः - अनन्तरोक प्राकृतशैल्या मिथ्यादुष्कृतपदस्यार्थः, 'समासेन' सङ्क्षेपेण ॥ आह— कथं प्रत्येकमक्षराणामुतार्थता १, पदवाक्ययोरेवार्थदर्शनात्, उच्यते, इह यथा वाक्यैकदेशत्वात् पदस्यार्थोऽस्ति तथा पदैकदेशत्वाद्वर्णस्यापीत्यदोषः, अन्यथा पदस्याप्यर्थ| शून्यत्वप्रसङ्गोऽक्षरेष्वर्थाभावात्, प्रयोगश्च - यत् यत्र प्रत्येकं न विद्यते तत्समुदायेऽपि न भवति, यथा सिकतासु तैलं, इष्यते च वर्णसमुदायात्मकस्य पदस्यार्थस्तस्मादन्यथानुपपत्तेर्वर्णानामप्यर्थः प्रतिपत्तव्य इत्यलं प्रसङ्गेन ॥ साम्प्रतं तथाकारो यस्य दीयते तत्प्रतिपादनार्थमाह कप्पाकप्पे परिनिट्ठिअस्स ठाणेसु पंचसु ठिअस्स । संजमतवद्भगस्स उ अविगप्पेणं तहक्कारो ॥ ३८८ ॥ कल्पो विधिराचार इति पर्यायाः, कल्पविपरीतस्त्वकल्पः, जिनस्थविरकल्पादि वा कल्पः चरकादिदीक्षा पुनरकल्पः, कल्पञ्चाकल्पश्चेति समाहारो द्वन्द्वः कल्पाकल्पं तस्मिन् कल्पाकल्पे परि-समन्तात् निष्ठितः परिनिष्ठितो- ज्ञाननिष्ठां प्राप्तः तस्य, तथा तिष्ठन्त्येतेषु सत्सु शाश्वते स्थाने प्राणिन इति स्थानानि - महाव्रतान्यभिधीयन्ते तेषु स्थानेषु पश्चसु स्थितस्य, महाव्रतयुक्तस्येत्यर्थः, संयमतपोभ्यामाढ्यः - संपन्नः संयमतपआढ्यः, अनेनोत्तरगुणयुक्ततामाह, तस्य किमि - त्याह- 'अविकल्पेन' निश्चयेन तथाकारः कर्त्तव्य इति क्रियाध्याहारः ॥ सम्प्रति तथाकार विषयप्रतिपादनार्थमाह For Private & Personal Use Only 110~ मिथ्या कारः तथाकारव ॥ ३४७॥
SR No.007203
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages316
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy