________________
आगम
(४०)
"आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [३६०-३६१], विभागाथा ], भाष्यं [३७...], मूलं F /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सत्राक
है तच्छोकोपशान्तये भगवन्तमवप्रहं पप्रच्छ-कतिविधः अवग्रह इति, भगवानाह-पञ्चविधोऽवग्रहः, तद्यथा-देवेन्द्रावग्रहो ।
राजावग्रहो गृहपत्यवग्रहः सागारिकावग्रहः साधम्मिकावग्रहश्च, तत्र देवेन्द्रः-सौधर्माधिपतिः, राजा भरताधिपो गृह्यते, गृहपतिः-माण्डलिको राजा, सागारिक:-शय्यातरः, साधम्मिकः संयत इति, एतेषां चोत्तरोत्तरेण पूर्वः पूर्वो बाधितो द्रष्टव्य इति, यथा राजावग्रहेण देवेन्द्रावग्रहो बाधित इत्यादि प्ररूपिते देवराडाह-भगवन् ! य एते श्रमणा मदीयावग्रहे विचरन्ति तेषां मयाऽवग्रहोऽनुज्ञात इत्येवमभिधायाभिवन्द्य च भगवन्तं तस्थौ, भरतोऽचिन्तयद्-अहमपि स्वकीयमवग्रहमनुजानामीत्येतावताऽपि नः कृतार्थता भवतु, भगवत्समीपेऽनुज्ञातावग्रहः शक्र पृष्टवान्-भक्तपानमिदमानीतम् अनेन किं कार्यमिति, देवराडाह-गुणोत्तरान् पूजयस्व, सोऽचिन्तयत्-के मम साधुव्यतिरेकेण जात्यादिभिरुत्तराः!,
पोलोचयता ज्ञात-श्रावका विरताविरतत्वाद् गुणोत्तराः, तेभ्यो दचमिति, पुनर्भरतो देवेन्द्ररूपं भास्वरमाकृतिमत् दादृष्ट्वा पृष्टवान-किं यूयमेवभूतेन रूपेण देवलोके तिष्ठतेति ? उत नेति, देवराट् आह-नेति, तन्मानुपैट्रेष्टुमपि न सापायेंते, भास्वरत्वात्, पुनरप्याह भरत:-तस्याकृतिमात्रेणास्माकं कौतुकं तन्निदश्यतां, देवराज आह-स्वमुत्तमपुरुष ठा इतिकृत्वैकमावयवं दर्शयामीत्यभिधाय योग्यालङ्कारविभूषितामङ्गुलीमत्यन्तभास्वरामदर्शयत्, दृष्ट्वा च तां भरतोदावीव मुमुदे, शक्राङ्गुली च स्थापयित्वा महिमाष्टाहिका चक्रे, ततः प्रभृति शकोत्सवः प्रवृत्त इति, भरतश्च श्रावकाना
योक्तवान्-भवद्भिः प्रतिदिनं मदीयं भोक्तव्यं १ कृप्यादि चन कार्य २ स्वाध्यायपरैरासितव्यं ३ भुक्के च मदीय|| गृहद्वारासन्नव्यवस्थितैर्वतव्यम्-जितो भवान् बर्द्धते भयं तस्मान्मा हनमा हनेति ४, ते तथैव कृतवन्तः, भरतश्च रतिसा-15
दीप अनुक्रम
H
टकटकर-CA
आ.स.४०
iwsaneliterary.com
~1937