________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-] निर्युक्ति: [ १३-१५] भाष्यं [-] वि० भा० गाथा [-] मूलं [- /गाथा ] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक” निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
६. नत्रापि व्यवहारनिश्चयनयाभ्यां विचारः, तत्र व्यवहारनयमतेन मतिश्रुतावधिमनः पर्यायज्ञानिनः आमिनित्रोधिकस्य पूर्वप्रतिपन्ना एव, नतु प्रतिपद्यमानाः न तन्मतेन ज्ञानी सन् मतिज्ञानं प्रतिपद्यते किन्त्वज्ञानी इति, केवली न तु पूर्वप्रतिपन्नो नापि प्रतिपद्यमानकः, तस्य क्षायोपशमिकज्ञानानीतत्वात्, तथा मत्यज्ञानश्रुताज्ञान विभङ्गज्ञानवन्तस्तु कदाचि + | द्विवक्षितकाले प्रतिपद्यमानका भवन्ति, न तु पूर्वप्रतिपन्नाः, निश्चयनयमतेन तु मतिश्रुतावधिज्ञानिनः पूर्वप्रतिपन्ना । नियमतः सन्ति, प्रतिपद्यमानका अपि सम्भवन्ति, सम्यग्दर्शन लाभसमय एव मत्यादिलाभस्य सम्भवात्, क्रियाकालनिष्टाकालयोश्चाभेदात् मनःपर्यायज्ञानिनस्तु पूर्वप्रतिपन्ना एव, न प्रतिपद्यमानकाः, पूर्वं सम्यक्त्वलाभकाले प्रतिपन्न4 | नतिज्ञानस्यैव पश्चात् यत्यवस्थायां मनःपर्यायज्ञानमद्भावात्, केवलिनां तूभयाभावः, मत्यादिज्ञानव्यवच्छेदेन केवलज्ञाननावात्, मत्याद्यज्ञानवन्तस्तु न पूर्वप्रतिपन्ना, नापि प्रतिपद्यमानकाः, प्रतिपत्तिक्रियाकाले मत्याद्यज्ञानाभावात्, क्रियाकालनिष्ठाकालयोरभेदात्, अज्ञानभावे च प्रतिपत्तिक्रियाया अभावात्, दर्शनद्वारे चक्षुरचक्षुरवधिकेत्रलभेदात् दर्शनं चतुर्द्धा, तत्राद्यदर्शनत्रये लब्धिमङ्गीकृत्य पूर्वप्रतिपन्ना नियमतः प्राप्यन्ते, प्रतिपद्यमानकास्तु भजनीयाः, तदुपयोगं त्वाश्रित्य पूर्वप्रतिपन्ना एव न नु प्रतिपद्यमानकाः, मतिज्ञानस्य लब्धित्वात्, लब्ध्युत्पत्तेश्च दर्शनोपयोगे निषिद्धत्वात्, 'सबाओ लद्धीओ सागारोवओगोवउत्तस्स उववजंति' इति वचनात्, केवलदर्शनिनां तूभयाभावः, देशदर्शन व्यवच्छेदेन | केवलज्ञानदर्शनभावात् संयतद्वारे संयत आभिनिवोधिकस्य पूर्वप्रतिपन्नो नियमाल्लभ्यते, प्रतिपद्यमानको भजनया, ननु | सम्यक्त्वाभावस्थायामेव मतिज्ञानस्य प्रतिपन्नत्वात् संयतः कथं प्रतिपद्यमान कोऽवाप्यते ?, सत्यमेतत्, केवलं योऽतिवि
Pse & Personal Use Only
... निश्चय एवं व्यवहार-मतेन मति आदि ज्ञानानां लाभ-अलाभस्य वर्णनं
~98~
wwwww.anlibrary.org