________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
[-]
उपोद्घाते
॥ ४१ ॥
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग - १
अध्ययनं [-], निर्युक्ति: [ १३-१५], भाष्यं [-] वि० भा० गाथा [ ४२१, ४२३], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक” निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
1566
निश्चयन्यः
ज्ञानलाभा
प्यवोचत- 'न खल्वारम्भ एवं शिविकाद्यद्धायां वा घटादिकार्यं पश्याम' इति, तदपि स्थूलमतितासूचकं, प्रथमसमये हि न घटादिकार्यमारब्धं, किन्तु चक्रमस्तकमृत्पिण्डारोपणादि, तच्च तस्मिन् समये दृश्यते, यत् नारब्धं घटादि तत्कथं दृश्यते १, ४ बहारा न खल्वन्यारम्भेऽन्यत् दृश्यते, यथा घटः पटारम्भे, शिवकादयोऽपि न घट इति तदद्भावामपि तस्य दर्शनाभावः, आह च - "अन्नारंभ अन्नं किह दीसउ जह घडो पडारंभे ? । सिवगादयो न घडओ किह दीसउ सो तदद्धाए ? ॥१॥ (४२१ वि० ) ” | यञ्चैतदुक्तम्- 'किन्तु विवक्षितक्रियाकालपर्यन्ते' इति, तत्समीचीनमेव, विवक्षितकार्यनिमित्तभूत कार्यकोटिक्रिया कालपर्यन्त एव तस्यारब्धत्वात् यस्तु लोको व्यवहरति- एतावान् घटस्य करणे कालो लग्न इति स घटार्थितया घटनिमित्तप्रतिस मयोत्पन्नकार्य क्रियाकालं घंटे लगयति, न च विवेचयति स्थूलमतित्वात् एवं भवानपि स्थूलमतितया लोकव्यवहार| पतितः सन् न किमपि विचारयति, आह च - " qइसमय कज्ज कोडी निरविक्खो घडगयाभिलासोऽसि । पइसमयकज्जकालं थूलमइ !घडंमि लाएसि ॥ १॥ (४२३ वि० ) ” एवमत्रापि श्रवणादीनि प्रतिसमयभावीनि परस्परविलक्षणानि कार्याणि, ततो न तत्काले सम्यक्त्वात्पादो ज्ञानोत्पादो वाऽम्यारम्भेऽन्यस्योत्पादाभावात्, यस्मिंस्तु समये सम्यक्त्वोत्पादारम्भो ज्ञानारम्भो वा तस्मिन् समये तदुत्पद्यत एवेति । सम्यक्त्वद्वारे व्यवहारनयमतेन सम्यग्दृष्टिरामिनिवोधिक ज्ञानस्य पूर्वप्रति - पन्न एव नतु प्रतिपद्यमानकः, सम्यक्त्वज्ञानयोयुगपल्लाभात्, तत्काले च क्रियाया अभावात्, तदभावे च प्रतिपद्यमा 4 ॥ ४१ ॥ | नकत्वायोगादिति निश्चयनयमतेन तु सम्यग्दृष्टिराभिनिवोधिकस्य पूर्वप्रतिपन्नः प्रतिपद्यमानकश्च लभ्यते, क्रियायाः कार्यनिष्ठायाश्च युगपद्भावाद्, एतच्च प्रागेव समर्थितमिति, ज्ञानद्वारे मतिश्रुतावधिमनःपर्यायकेवल भेदात् पञ्चधा ज्ञानं,
For Pete & Personal Use Only
~97~
andlibrary.org