SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-१ अध्ययनं , नियुक्ति: [१३-१५], भाष्यं , विभा गाथा , मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्राक दीप अनुक्रम तथा अन्वयधर्मान्वेषणं मार्गणा, व्यतिरेकधर्मालोचनं गवेषणा, तथा संज्ञानं संज्ञा-बजनावग्रहोचरकालो मतिवि|शेषः, स्मरणं स्मृति:-पूर्वानुभूतार्थालम्बनप्रत्ययः, मननं मति:-कश्चिदर्थपरिचिसावपि सूक्ष्मधर्मपर्वालोचनरूपा बुद्धिः। है तथा प्रज्ञानं प्रज्ञा-विशिष्टक्षयोपशमजन्या प्रमूतवस्तुगतयथावस्थितधर्मालोचनरूपा मतिः, सर्वमिदमामिनिबोधिकं, मतिज्ञानमित्यर्थः, एवं किञ्चिद्भेदाझेदः प्रदर्शितः, परमार्थतस्तु सर्व एवैते मतिवाचकाः पर्यायशब्दाः। तदेवं तत्त्वभेदपर्यायैर्मतिज्ञानस्वरूपं व्याख्याय सम्पति नवभिरनुयोगद्वारैः पुनस्तद्रूपनिरूपणार्थमाह"संतपपपरवणया दबपमाणं च खित्तफुसणा य । कालो अ अंतर भागो भावे अप्पावहुंचेव ॥१३॥ गइ इंदिए य काए जोए वेए कसायलेसासु । सम्मत्तनाणदंसण संजय उवयोग आहारे ॥१४॥ भासग-परित्त-पवत्त-सुहुम सन्नी य होह भवचरिमे । आभिणिवोहियनाणं मग्गिज्वइ एम ठाणेसु ॥१५॥ | सच तत्पदं च सत्पदं तस्य प्ररूपणं-गत्यादिद्वारेषु विचारणं सत्पदमरूपणं सत्पदप्ररूपणस्य भावा-सत्पदप्ररूपणशब्दस्य || प्रवृत्तिनिमित्तं सत्पदप्ररूपणता, तदेव सत्पदप्ररूपणमिति भावः, किमुक्तं भवति - मतिज्ञानमिति यत्सत्पदं तस्य गत्या. दिभिारः प्ररूपणमिति, अथवा सद्विषयं पदं सत्पदं-तदेव मतिज्ञानमितिरूपं पर्द, मतिज्ञानस्य सत्त्वात् प्रकान्तत्वाच, शेषं पूर्ववत्, नन्वसत्पदस्यापि किं प्ररूपणा क्रियते येनेदमुच्यते-'सत्पदप्ररूपणे'ति ।, उच्यते, क्रियते खलु खर| विषाणादेरप्यसत्पदस्य प्ररूपणा, ततः सद्भहणमिति, अथवा सन्ति च तानि पदानि च स्थानानि सत्पदानि गत्यादीनि सातैः प्ररूपणं मतेः सत्पदनरूपणं, शेषं पूर्ववत्, द्रव्यप्रमाणं जीवप्रमाणमिति वक्तव्यं, किमुक्तं भवति ?-एकस्मिन् समये - 44 n onin For the Personal n ame सत्पदप्ररुपणा आदि द्वाराणाम् वर्णनं 492~
SR No.007201
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages307
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy