________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
[-]
पोद्धा
॥ १९ ॥
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्तिः [१३-१५], भाष्यं [-] वि० भा० गाथा [ ४३२] मूलं [- /गाथा -] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
| मतिज्ञानं कियन्तः प्रतिपद्यन्ते १ इति, सर्वे वा कियन्तः १ इति, चशब्दः समुच्चये, तथा क्षेत्रं वक्तव्यं, कियति क्षेत्रे मतिज्ञानं सम्भवति १, तथा स्पर्शना च वक्तव्या, यथा कियत् क्षेत्रं मतिज्ञानिनः स्पृशन्ति, अथ क्षेत्रस्य स्पर्शनायाश्च कः प्रतिविशेषः १, उच्यते, यत्रावगाहस्तत् क्षेत्र, स्पर्शना तु तद्भाह्यतोऽपि भवति, तथा परमाणुमधिकृत्योक्तम्- “एगपएसोगाहो | सत्तपसा य से फुसणा (४३२ वि०) ।" च शब्दः पूर्ववत् काल:- स्थितिलक्षणो मतिज्ञानस्य वाच्यः, चशब्दः पूर्ववत्, अन्तरं च- एकदा प्रतिपद्य वियुक्तः कियता कालेन पुनरपि तत् प्रतिपद्यते इत्येवंरूपं तस्य वक्तव्यं, तथा मतिज्ञानिनः शेषज्ञानिनां कतिभागे वर्त्तन्ते इत्येवं भागो वक्तव्यः, तथा कस्मिन् भावे मतिज्ञानिनो वर्त्तन्ते इत्येवं भावो भणनीयः, तथा अल्पबहुत्वं वक्तव्यं, अथ भागद्वारादेवायमर्थोऽवगतस्ततः किमनेन द्वारेण ?, न, अभिप्रायापरिज्ञानात्, इह मतिज्ञानिनामेव पूर्वप्रतिपन्नप्रतिपद्यमानकानां परस्परमल्पबहुत्वं वक्तव्यं, भागस्तु शेषज्ञानापेक्षया इति, एष गाथासमुदायार्थः । सम्प्रति प्रागुपन्यस्तगाथाद्वयेनाभिनिवोधिकज्ञानस्य सत्पदप्ररूपणताद्वारावयवार्थः प्रतिपाद्यते - आभिनिवोधिकज्ञानं किमस्ति नास्तीति १, अस्ति, यद्यस्ति क्व तत् १ तत्र गतिमङ्गीकृत्यालोच्यते सा गतिश्चतुर्विधा, तद्यथा-नरकगतिस्ति| र्यग्गतिः मनुष्यगतिर्देवगतिश्च तत्र चतुष्प्रकारायामपि गतौ आभिनिबोधिकज्ञानस्य पूर्वप्रतिपन्ना नियमतो विद्यन्ते, प्रतिपद्यमानास्तु विवक्षितकाले भाज्याः कदाचिद् भवन्ति कदाचिन्नेति, तत्र (ते) प्रतिपद्यमाना अभिधीयन्ते ये तत्प्रथमतया आभिनिबोधिकं प्रतिपद्यन्ते, ते प्रथमसमयवर्त्तिनः प्रतिपद्यमानाः, शेषेषु समयेषु तु पूर्वप्रतिपन्नाः, तथा 'इंदिए' ति इन्द्रियाण्यङ्गीकृत्य मृग्यते, तत्र पश्चेन्द्रियाः पूर्वप्रतिपक्षा नियमतः सन्ति, प्रतिपद्यमानास्तु भाज्याः, द्वित्रिचतुरिन्द्रि
Education Internation
For P&Personal Use Only
~93~
सदादीति द्वाराणि गत्यादयो
मार्गणाः
गा. १३०५
॥ ३९ ॥