________________
आगम
(४०)
"आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-१ अध्ययनं H, नियुक्ति: [१०,११], भाष्यं , विभा गाथा [३९२], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्राक
दीप अनुक्रम
पराहन्ति पराघाताच शब्दपरिणाम भजन्ते, ततो द्वितीयसमये तानि प्रसरमधिरोहन्ति मन्धान साधयन्ति, तृतीयसमये
तु तदन्तरालापूरणात् सकललोकमापूरयन्ति, उक्तं च-"न समुग्घायगई' मीसयसवणं मयं च दंडमि । जइ तोवि जातीहिं पूरह समएहिं जओ पराघातो ॥१॥ (३९२ वि०)" अथ जैनसमुद्घात इव चतुर्भिरेव समयैर्भाषयाऽपि लोकापूरणं|
भविष्यति, ततः को दोषः, तदसमीचीनं, सम्यसिद्धान्तापरिज्ञानात् , जैनसमुद्घाते हि जीवप्रदेशा एव स्वरूपेण लोकमा| पूरयन्ति, न पुनस्तत्र कस्यापि पराघातोऽस्ति, ततो न तत्र द्वितीयसमये मन्थाः, किन्तु कपाट एव केवलः, अन्यच्च-केवली| भवोपनाहिकर्मणामुपघाताय केवलिसमुद्घातमारभते, स च केवलचक्षुषा परिभाव्यमान इत्थमेव क्रियमाणस्तेषां भवोपग्राहिकर्मणामुपघाताय प्रभवति, नान्यथा, यदिवा दण्डकपाटादिक्रमेणैव जीवप्रदेशैः सकललोकपूरणं भवति, नान्यथा, तथास्वाभाव्यादिति केवलिसमुद्घातस्य चतुःसमयता, भाषापुद्गलानां स्वनुश्रेणिगमनं पराघातेन द्रव्यान्तरवासक-| तास्वभावश्च सकललोकव्याप्ती हेतुः, ततः प्रथमसमय एव ऊर्ध्वाधोदण्डे कृते द्वितीयसमये चतसृष्वपि दिक्षु अनुश्रेणिगमनात् | पराघातेन तदन्यद्रव्यवासकत्वाच्च ते मन्धानं साधयन्ति, तृतीये तु समये स्वन्तरालापूरणतः समस्तलोकव्याप्तिरिति त्रिसमयतैवात्रापद्यते, न चतुःसमयतेति, अथ योऽसावचित्तमहास्कन्धः प्रज्ञापनादिषु वण्यते स जीवप्रदेशापूरणात्मको | न भवत्यचित्तमहास्कन्धत्वात्, किन्तु पुद्गलमयः, ततो यथाऽसौ पुद्गलमयोऽपि नियमाच्चतुःसामयिक एव, एवं भाष-1 याऽप्यापूरर्ण लोकस्य चतुःसामयिकमेव भविष्यति, न त्रिसामयिकमिति को दोषः ?, तदयुक्तम् , अचित्तमहास्कन्धी हि विश्नसापरिणामेन भवति, विसापरिणामश्च यद्यपि विचित्रस्तथापि स केवलचक्षुषा सर्वदैव तथास्वाभाव्यादित्यमे
'-.---.xkxx
भा,सू.
For
the Personal
~88~