________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्ति: [५], भाष्यं [ - ], वि० भा० गाथा [-], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
| शब्दं यथावस्थितं परिच्छिन्द्युः, नच परिच्छिन्दन्ति, तस्मात्प्राठा एव शब्दपरमाणवः श्रोत्रेन्द्रियेण परिगृह्यन्ते इत्यवश्यमभ्युपगन्तव्यम्, इतक्षाभ्युपगन्तव्यमन्यथा क्रमग्रहणानुपपत्तेः तथाहि--पथप्राप्ता एव शब्द गृह्यन्ते तर्हि तेषां योग्यदेशावस्थितानां समीपस्यैरस्यैव ग्रहणमेककाले भवेद, यया चक्षुषा योग्यदेशावस्थानां घटपटादीनां, अथ च क्रमेण ग्रहणमनुभूयते, पूर्व समीपस्यैः पश्चाद्दूरस्थैरिति यदपि चोकं 'चाण्डालस्पर्शदोष' इति, तदपि चेतनाविकलपुरुषभाषितमिवासमीचीन, स्पर्शास्पर्शव्यवस्था हि लोके काल्पनिकी न पारमार्थिकी, तथाहि यामेव भुवमग्रे चाण्डालः स्पृशन् याति तामेव पृष्ठतः श्रोत्रियोऽपि तथा यामेव नावमारोहति चाण्डालस्तामेवारोहति श्रोत्रियोऽपि, तथा स एव मारुतः चाण्डालं स्पृष्ट्वा श्रोत्रियमपि स्पृशति, न च तत्र लोके स्पर्शदोपव्यवस्था, तथा शब्दपुद्गलसंस्पर्शेऽपि न भवतीति न कश्चिद्दोषः, अन्यच्च| यदा केतकीदलनिचयं शतपत्रादिपुष्पनिचयं वा शिरसि निवध्य वपुषि वा मृगमदचन्दनाद्यवलेपनमारचय्य विपणिवीथीमागत्य चण्डालोऽवतिष्ठते तदा तद्गत केतकीदलादिगन्धपुद्गलाः श्रोत्रियादिनासिकास्वपि प्रविशन्ति, ततस्तत्रापि चाण्डालस्पर्शदोषः प्राप्नोतीति तद्दोषभयान्नासिकेन्द्रियमप्यप्राप्यकारि प्रतिपत्तव्यं, न चैतद्भवतोऽभ्यागमे प्रतिपाद्यते, ततो वालिशजस्पितमिति कृतं प्रसङ्गेन । केचित्पुनः श्रोत्रेन्द्रियस्य प्राप्यकारितामप्यभ्युपगच्छन्तः शब्दस्याम्बरगुणत्वं प्रतिपन्नाः, तदटी, आकाशगुणतायां शब्दस्यामूर्त्तत्वप्रसक्तेः, यो हि यद्गुणः स तत्समानधर्मा, वथा ज्ञानमात्मनः, तथाहि - अमूर्च आत्मा ततस्तद्गुणो ज्ञानमध्यमूर्त्तमेव, एवं शब्दोऽपि यद्याकाशगुणः तर्हि आकाशस्यामूर्त्तत्वात् शब्दस्यापि तद्गुणत्वेनामूर्त्तता भवेत्, न चासौ युक्तिसङ्गता, तलक्षणायोगात्, मूर्त्तिविरहो ह्यमूर्त्तता, न च शब्दानां मूर्त्तिविरहः स्पर्शवत्त्वात्, तथाहि
Jain Education International
For P&Personal Use Only
~70~
www.janelibrary.org