________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
[-]
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग - १
अध्ययनं [ - ], निर्युक्ति: [५], भाष्यं [-] वि० भा० गाथा [-] मूलं [- /गाथा ] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
॥ २७ ॥
उपोद्घाते ४ रमभिगृहानाः श्रोत्रेन्द्रियमागच्छन्ति, ततः सम्भवत्युपघातः, ननु यदि श्रोत्रेन्द्रियं प्राप्तमेव शब्द गृह्णाति नामाप्तं तर्हि यथा गन्धादौ गृह्यमाणे न तत्र दूरासन्नादितया भेदप्रतीतिरेवं शब्देऽपि न स्यात् प्राप्तो हि विषयः परिच्छिद्यमानः सर्वोऽपि सन्निहित एव तत्कथं तत्र दूरासन्नादिभेदप्रतीतिर्भवितुमर्हति अथ च प्रतीयते शब्दो दूरासन्नादितया, तथा च लोके वक्तारः-श्रूयते कस्यापि दूरे शब्द इति, अन्यच्च यदि प्राप्तः शब्दो गृह्यते श्रोत्रेन्द्रियेण तर्हि चाण्डालोकोऽपि | शब्दः श्रोत्रेन्द्रियसंस्पृष्टो गृह्यते इति श्रोत्रस्य चाण्डालरपर्शदोषः, तन्न श्रेयसी श्रोत्रेन्द्रियस्य प्राप्तकारिता, तदेतन्महामोहमलीमसमानसभाषितं, यतो यद्यपि शब्दः प्राप्तो गृह्यते श्रोत्रेन्द्रियेण तथापि यत उत्थितः शब्दस्तस्य दूरासन्नत्वे | शब्देऽपि स्वभाववैचित्र्यसम्भवात् दूरासन्नादिभेदप्रतीतिरुहसिष्यति, तथाहि दूरादागतः शब्दः क्षीणशक्तिकत्वात् खिन्न इव लक्ष्यते, अस्पष्टरूपो वा, ततो लोके व्यवहारो दूरे शब्दः श्रूयते इति, अस्य वाक्यस्यायं भावार्थ:- दूरादागतः श्रूयते इति, स्थादेतद्-एवमतिप्रसङ्गः प्राप्नोति, तथाहि एतदपि वक्तुं शक्यते, दूरे रूपमुलभ्यते, किमुक्तं भवति ?-दूरादागतं रूपमुपलभ्यत इति, ततश्चक्षुरपि प्राप्यकारीति प्राप्नोति, न चैतदिष्यते तस्मान्न तत्समीचीनमिति, तदयुक्तं यत इह चक्षुषो | रूपकृतावुपग्रहोपघातौ नोपलभ्येते, श्रोत्रेन्द्रियस्य तु शब्दकृत उपघात उपलम्भगोचरोऽस्ति, यथोक्तं प्राकू, ततो नातिप्रसङ्गापादनं युक्तिमत्, अन्यच्च प्रत्यासनोऽपि जनः पवनस्य प्रतिकूलमवतिष्ठमानः शब्दं न शृणोति, पवनवर्त्मनि | पुनरवतिष्ठमानो दूरदेशस्थितोऽपि शृणोति तथा व लोके वक्तारो न वयं प्रत्यासन्ना अपि त्वदीयं शब्दं शृणुमः, पवनस्य प्रतिकूलमवस्थानात्, यदि पुनरप्राप्तमेव शब्द रूपमिव जनाः प्रमिप्पीयुस्तर्हि पवनस्य प्रतिकूलमप्यवतिष्ठमाना रूपमिव
For Pete & Personal Use Only
~69~
| शब्दादी
नां सुष्टास्पृष्टवादि
॥ २७ ॥