________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप अनुक्रम [-]
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग - १
अध्ययनं [ - ], निर्युक्तिः [३], भाष्यं [-] वि० भा० गाथा [-] मूलं [- /गाथा ] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [४०], मूलसूत्र-[१] “आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
कवड
| तार्थविशेषपरित्यागाकाङ्क्षी मतिविशेष इति, विशिष्टोऽवसायो व्यवसायः निर्णयो निश्चयोऽवगम इत्यनर्थान्तरं तं, व्यवसायम् | अर्थानामिति वर्त्तते अवायं घ्रुवत इति संसर्ग, एतदुक्तं भवति - शाङ्ख एवायं शार्ङ्ग एवायमित्याद्यवधारणात्मकः प्रत्ययोऽवाय इति चशब्द एवकारार्थः, स चावधारणे, व्यवसायमेवावार्थं ब्रुवत इति, धृतिर्धारणम् अर्थानामिति वर्त्तते, परिच्छिन्नस्य वस्तु| नोऽविच्युतिवासनास्मृतिरूपं धरणं पुनर्धारणां ब्रुवते, पुनःशब्दोऽप्येवकारार्थः, स चावधारणे, ब्रुवते इत्यनेन शास्त्रपारतन्त्र्यमाह, इत्थं तीर्थकरगणधरा ब्रुवते इति, अर्थावग्रहेहापायधारणाः पञ्चस्विन्द्रियेषु षष्ठे च मनसि भावात् प्रत्येकं पड्भेदात्मकाश्चतुर्द्धा व्यञ्जनावग्रह इति सर्वसङ्कलनयाऽष्टाविंशतिभेदभिन्नमाभिनिबोधिकं ज्ञानमवगन्तव्यं, नवरमीहा सदृशधर्मोपेतवस्तुविषयेति नयनादिनिबन्धनेहाविषया यथाक्रमं स्थाणुपुरुषादिकुष्ठोत्पलादिसम्भृतकारवेल्लमांसादिसप्र्पोत्पलनालादयः प्रतिपत्तव्याः, उक्तं च- "थाणुपुरिसादिकुहुप्पलादिसंभियकरेलमंसाई । सप्पुपलनालाइय समाणरुवाइ विसयाई ॥ १ ॥” (वि०२९३) अन्ये पुनरेवं पठन्ति - "अत्थाणं उग्गहणमि उग्गहो तह वियालणे ईहा । ववसायमि अवाओ धरणं पुण धारणं देति ॥१॥ तत्रार्थानामवग्रहणे सति अवग्रहो नाम प्रथमो मतिभेदो भवतीत्येवं ब्रुवते, एवमीहादिष्वपि योज्यं, भावार्थस्तु पूर्ववत्, | अथवा प्राकृतत्वाद्भवति विभक्तीनां व्यत्ययो, यदाह पाणिनिः स्वप्राकृतलक्षणे- “व्यत्ययोऽप्यासा" मिति, ततो यथा आचा| राहे "अगणिं च खलु पुट्ठा वेगे संघायमावजंती" त्यत्र सूत्रे अग्निना च स्पृष्टा, अथवा स्पृष्टशब्दः पतितवाची, अग्नौ च पतिता एके शलभादयः सङ्घातमापद्यन्ते - अन्योऽन्यगात्रसङ्कोचमासादयन्ति तस्मादग्निसमारम्भोऽनेकस स्वव्यापत्तिहेतुत्वान्न कार्य इति द्वितीया तृतीयार्थे सप्तम्यर्थे च व्याख्याता, तथाऽत्रापि सप्तमी प्रथमार्थे द्रष्टव्या, ततोऽयमर्थ - अर्थानामवग्र
Education International
For Pe&Personal Use Only
~66~
www.janelibrary.org