________________
आगम
(४०)
__"आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-१ अध्ययनं -], नियुक्ति: [१], भाष्यं [-], विभा गाथा [८६,८७], मूलं -/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्राक
दीप अनुक्रम
AAACAREERS
कादिन्यस्ताक्षररूपां द्रव्यश्रुतविषयां शब्दार्थपोलोचनास्मिकां शेषेन्द्रियोपलब्धि, तस्याः श्रुतज्ञानरूपत्वात् , यश्च द्रव्य श्रुतव्यतिरेकेणान्योऽपि शेषेन्द्रियध्वक्षरलाभः शब्दार्थपोलोचनात्मकः सोऽपि श्रुतं, न तु केवलोऽक्षरलाभः, केवलो अक्षरलाभो मतावपि ईहादिरूपायां भवति, न च सा श्रुतज्ञान, अत्राह-ननु यदि शेषेन्द्रियेष्वक्षरलाभः श्रुतं तर्हि यदवधारणमुक्तं 'श्रोत्रेन्द्रियेणोपलब्धिरेव श्रुत' मिति तद्विघटते, शेषेन्द्रियोपलब्घेरपि सम्पति श्रुतत्वेन प्रतिपन्नत्वात् , नैष दोषा, यतः शेषेन्द्रियाक्षरलाभः स इह गृह्यते यः शब्दार्थपर्यालोचनात्मकः, शब्दार्थपर्यालोचनानुसारी चाक्षरलाभः श्रोत्रेन्द्रियोपलब्धिरूप इति न कश्चिदोष इति । तथा बल्कसम मतिज्ञानं, कारणत्वात्, शुम्बसमं श्रुतज्ञानं, तत्कार्यत्वात्, ततो यथा वल्कशुम्बयोर्भेदः तथा मतिश्रुतयोरपि । इतश्च भेदो-मतिज्ञानमनक्षरं साक्षरं च, तथाहि-अवग्रहज्ञानमनक्षरं तस्यानिर्देश्यसामान्यमात्रप्रतिभासात्मकतया निर्विकल्पत्वात्, ईहादिज्ञानं तु साक्षरं, तस्य परामर्शादिरूपतयाऽवश्य वर्णारू[पितत्वात् श्रुतज्ञानं पुनः साक्षरमेव, अक्षरमन्तरेण शब्दार्थपर्यालोचनाऽयोगात् । इतश्च मतिश्रुतयोमेंदो-मूककल्प मतिज्ञानं, स्वमात्रप्रत्यायनफलत्वात् , अमूककल्पं श्रुतज्ञानं, स्वपरप्रत्यायकत्वादिति ॥ मतिश्रुतानन्तरं च कालविपर्ययादिसाधादवधिज्ञानस्योपन्यासः, तदनन्तरं च छद्मस्थविषयभावादिसाधम्यान्मनःपर्यवज्ञानस्योपन्यासः, तदनन्तरं च ५ भावमुनिस्वाम्यादिसाधर्म्यात् सर्वोत्तमत्वाच्च केवलज्ञानस्य, उक्तं च-"मइपुर्व जेण सुयं तेणादीए मई विसिट्ठी वा। मइभेदो चेव सुअं तो मइसमणंतरं भणियं ॥शा कालविवजयसामित्तलाभसाहम्मतोऽवही तत्तो । माणसमित्तो छउमत्थविसयभावाइसाहम्मा ॥२२अंते केवलमुत्तममुणिसामित्तावसाणलाभातो" इति (वि.८६-८७॥) सम्पति 'यथोद्देशं निर्देश
न
For
the Personal
~58~