________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
[-]
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्तिः [१], भाष्यं [-] वि० भा० गाथा [ १२२, १२३], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
उपोद्घाते
॥ २१ ॥
प्रतिभाति न शेषः, एतच्च प्रतिप्राणि स्वसंवेदनप्रमाणसिद्धं ततो यथोत्पन्नोऽपि घटो मृदभावे न भवति तथास्वभावायां च मृदि स्थितायामवतिष्ठत इति सा तस्य कारणं, एवं श्रुतस्यापि मतिः कारणं, मतेरुत्पद्यमानत्वात्, मतौ वाऽवस्थितायां ★ तस्याप्यवस्थानात् । तथा च भेदाद्भेदः, तथाहि चतुर्द्धा व्यञ्जनावग्रहषोढाऽर्थावग्रहेह । पाय धारणाभेदादष्टाविंशतिविधमाभिनिबोधिकं ज्ञानं, अङ्गप्रविष्टान प्रविष्टादिभिन्नं च श्रुतज्ञानमिति तथा इन्द्रियविभागाद्भेदः, तत्प्रतिपादिका चेयं पूर्वान्तगंता गाथा- "सोदियोवलद्धी होइ सुयं सेसयं तु मइनाणं । मोत्तूणं दवसुयं अक्खरलंभो य सेसेसु ॥ १ ॥" अस्या व्याख्या-श्रोत्रेन्द्रियेणोपलब्धिः श्रोत्रेन्द्रियोपलब्धिर्भवति श्रुतं, 'सर्व वाक्यं सावधारणमिष्टितश्चावधारणप्रवृत्ति' रित्येवमिहावधारणं प्रतिपत्तव्यं श्रुतं श्रोत्रेन्द्रियोपलब्धिरेव नतु श्रोत्रेन्द्रियोपलब्धिः श्रुतमेव, कस्मादिति चेत्, उच्यते, इह या श्रोत्रे|न्द्रियोपलब्धिरपि श्रुतमन्धानुसारिणी सेव श्रुतमुच्यते, या पुनरवग्रहेहापायरूपा सा मतिः, ततो यदि श्रोत्रेन्द्रियो|पलब्धिः श्रुतमेवेत्युच्येत तर्हि मतेरपि श्रुतत्वमापद्येत, तच्चायुक्तं, अतः श्रोत्रेन्द्रियोपलब्धिरेव श्रुतमित्यवधारणीयं, आह च भाष्यकृत् - "सोईदिओवलद्धी चैव सुयं न उतई सुयं चैव । सोइंदियज्वलजीवि काई जम्हा मईनाणं ॥ १ ॥ (वि. १२२) तथा 'सेस तु मइनाणं" इति शेषं यच्चक्षुरादीन्द्रियोपलब्धिरूपं विज्ञानं तन्मतिज्ञानं भवतीति सम्बध्यते, तुशब्दोऽनुक्तसमुच्चयार्थः, आस्तां शेषं विज्ञानं श्रोत्रेन्द्रियोपलब्धिरपि काचिद् अवग्रहेहापायरूपा मतिज्ञानमिति समुच्चिनोतीति भावः, उक्तं च- "तु समुच्चयवयणातो काई सोइंदिओवलद्धीवि । मइ एवं सइ सोउग्गहादओं होंति मइभेया ॥१॥” (वि. १२२) तदेवं सर्वस्याः शेषेन्द्रियोपलब्धेरुत्सर्गेण मतित्वे प्राप्ते अपवादमाह 'मोत्तूर्णं दवसूयं मुक्त्वा द्रव्यश्रुर्त-पुस्तकपत्र
For Prise & Personal Use Only
~57~
मतिश्रुतयोर्भेदः
॥ २१ ॥