________________
आगम
(४०)
प्रत सूत्रांक
H
दीप
अनुक्रम
[-]
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्ति: [ १ ], भाष्यं [ - ], वि० भा० गाथा [१००, १०३ ], मूलं [-- /गाथा -] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र-[१] “आवश्यक” निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
मादीनां शब्दानामन्तर्जल्पाकाररूपाणां विवक्षितार्थवाचकतया प्रवर्त्तमानत्वात् उक्तं च- "इंदियमणोनिमित्तं अं विज्ञाणं सुयाणुसारेणं । निययत्थोत्तिसमत्थं तं भावसुर्य मई से सं॥ १ ॥” (वि. १०० ) अत्र 'सुयाणुसारेणं ति शब्दार्थपर्यालोचनानुसारेण । शब्दार्थपर्यालोचनं च नाम वाच्यवाचकभावपुरस्सरीकारेण शब्दसंसृष्टस्यार्थस्य प्रतिपत्तिः, केवलं एकेन्द्रियाणामव्यक्तमेव, किश्च नाप्यनिर्वचनीयं तथारूपक्षयोपशमभावतो वाच्यवाचकभावपुरःसरीकारेण शब्दसंसृष्टार्थग्रहणमवसेयं, अन्यथा आहारादिसंज्ञानुपपत्तेः, यदप्युच्यते यद्येवंलक्षणं श्रुतं तर्हि य एव श्रोत्रेन्द्रियलब्धिमान् भाषालब्धिमान् वा तस्यैव श्रुतमुपपद्यत इत्यादि, तदप्यसमीक्षिताभिधानं, सम्यक् प्रवचनार्थापरिज्ञानात्, तथाहि बकुलादीनां स्पर्शनेन्द्रियातिरिक्तद्रव्येन्द्रियलब्धि| विकलत्वेऽपि किमपि सूक्ष्मं भावेन्द्रियपञ्चकविज्ञानमभ्युपगम्यते, 'पंचेदियोब वडलो' इत्यादिभाष्यकारवचनप्रामाण्यात्, तथा भाषाश्रोत्रेन्द्रियलब्धिविकलत्वेऽपि तेषां किमपि सूक्ष्मं श्रुतं भविष्यति, अन्यथा आहारादिसंज्ञानुपपत्तेः, आह च भा ष्यकृत् - "जह सहमं भावेदियनाणं दबिंदिया व रोहेवि । तह दबसुयाभावे भावसुयं पत्थिवाईणं ॥ १॥ (वि.१०३) ततः समीचीनं प्रागुक्तं श्रुतलक्षणमिति भवति लक्षणभेदाद्भेदः । तथा हेतुफलभेदात्, तथाहि - मतिः कारणं, मत्या प्राप्यमाणत्वात् श्रुतं तु कार्य, न खलु मतिपाटयमन्तरेण श्रुतविभवमुत्तरोत्तरमासादयति जन्तुस्तथाऽदर्शनात्, यश्च यदुत्कर्षापकर्षवशादुत्कर्षापकर्षभाकू तत्तस्य कारणं, यथा घटस्य मृत्पिण्डः, मत्युत्कर्षापकर्षवशाच्च श्रुतस्योत्कर्षापकर्षो ततः कारणं मतिः श्रुतस्य, इतश्च कारणंमत्या श्रुतस्य पाल्यमानत्वात् पालनं नाम अवस्थितिकरणं, कथं अवस्थितिकरणं मत्या श्रुतज्ञानस्येति चेत्, उच्यते, इह दर्ल श्रुतस्य मतिर्यथा घटस्य मृत्, तथाहि श्रुतेष्वपि बहुपु (प्रन्थेषु) यद्विषयं स्मरणमीहापोहादि अधिकतरं स ग्रन्थः स्फुटं
For P&Personal Use Only
~56~
janelibrary.org