________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
[-]
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः: + वृत्तिः) भाग - १
अध्ययनं [-], निर्युक्तिः [१], भाष्यं [-] वि० भा० गाथा [-], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक” निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
उपोद्घाते ४ वेन परिणामविशेषेणावबुध्यते स परिणामविशेषों ज्ञानापरपर्यायः आभिनिवोधिक, तथा शृणोति वाच्यवाचकभावपुरस्सरं श्रवणविषयेण शब्देन सह संसृष्टमर्थं परिच्छिनत्ति येन परिणामविशेषेणात्मा स परिणामविशेषः श्रुर्त, भयं च ॥ २० ॥ लक्षणभेदो नन्द्यध्ययने साक्षादभिहितः, तथा च तत्सूत्रम् - " जत्थ आभिणिबोहियनाणं तत्थ सुयनाणं जस्थ सुअनाणं तत्थ आभिणिबोहियनाणं, दोऽवि एयाई, अनुन्नमणुगयाई तहवि पुण एत्थ आयरिया णाणत्तं पण्णवेति, अभिणिबुज्झइत्ति आभिणिवोहियं, सुणेईइ सुव" मिति । ननु यद्येवंलक्षणं श्रुतं तर्हि य एव श्रोत्रेन्द्रियन्धिमान् तथा भाषालब्धिमान् वा तस्यैव श्रुतमुपपद्यते, न शेषस्यै केन्द्रियस्य, तथाहि यः श्रोत्रेन्द्रियलब्धिमान् भवति स विवक्षितं शब्दं श्रुत्वा तेन शब्देन वाच्यमर्थे प्रतिपत्तुमीष्टे, न शेषः, शेषस्य तथारूपशक्त्यभावात्, योऽपि च भाषालब्धिमान् भवति द्वीन्द्रियादिरपि सोऽपि प्रायः स्वचेतसि किमपि विकल्प्य तदभिमानतः शब्दमुद्गिरति नान्यथा, ततस्तस्यापि श्रुतं सम्भाव्यते, यस्त्वेकेन्द्रियः स न श्रोत्रेन्द्रियलब्धिमान् नापि भाषालब्धिमान्, ततः कथं तस्य श्रुतमुपपद्यते ?, अथ च प्रवचने तस्यापि श्रुतमुपवर्ण्यते, ततः कथं प्रागुक्तं श्रुतलक्षणं सम्यगिति ?, नैष दोषः, इह तावदेकेन्द्रियाणामाहारादिसंज्ञा विद्यन्ते, तथा सूत्रेऽनेकशोऽभिधानात् संज्ञा चाभिलाष उच्यते, यदुक्तमस्यैवावश्यकस्य मूलटीकायां-"आहारसंज्ञाआहाराभिलाषः क्षुद्वेदनीयप्रभवः खल्वात्मपरिणामविशेष" इति, अभिलाषश्च ममैवंरूपं वस्तु पुष्टिकारि तद्यदीदमवाप्यते ततः समीचीनं भवतीत्येवं सब्दार्थोल्लेखानुविद्धः स्वपुष्टिनिमित्तप्रतिनियतवस्तुप्राप्यध्यवसायः, स च श्रुतमेव, | तस्य शब्दार्थ पर्यालोचनात्मकत्वात्, शब्दार्थपर्यालोचनात्मकता च ममैवंरूपं वस्तु पुष्टिकारि तद्यदीदमवाप्ते, इत्येव
For P&Personal Use Only
~55~
ज्ञानक्रमसिद्धिः
॥ २० ॥