________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
[-]
पोद्धा
॥ १९ ॥
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः: + वृत्तिः) भाग - १
अध्ययनं [-], निर्युक्तिः [१], भाष्यं [-] वि० भा० गाथा [-] मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०], मूलसूत्र -[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
अजीवत्तणं पावेजा, सुहुवि मेहसमुदय होर पहा चंदसूराणं' (नन्दी) इति वचनात् ततस्तस्य केवलज्ञानावरणावृतस्य धन| पटलाच्छादितस्येव सूर्यस्य यो मन्दः प्रकाशः सोऽपान्तशलावस्थित मतिज्ञानाद्यावरणक्षयोपशमसम्पादितं नानात्वं भजते, | यथा घनपटलावृत सूर्यमन्दप्रकाशोऽपांन्तरालावस्थितकटकुट्याद्यावरण विवरप्रदेशभेदतः, स च नानात्वं तत्तत्क्षयोपशमानुरूपं तथा तथा प्रतिपद्यमानः स्वस्वक्षयोपशमानुसारेणाभिधानभेदमश्नुते, यथा मतिज्ञानावरणक्षयोपशमजनितो मतिज्ञानं श्रुतज्ञानावरणक्षयोपशमजनितः श्रुतज्ञानमित्यादि, तत आत्मस्वभावभूता ज्ञानस्याभिनिबोधिकादयो भेदाः, ते च प्रतिवचनोपदर्शितपरिस्थूरनिमित्तनेदतः पंचसङ्ख्याः, ततस्तदपेक्षमावारकमपि पञ्चधोपवण्णतमिति न कश्चिद्दोषः, न चैवमात्मस्वभावत्वे क्षीणावरणस्यापि तद्भावप्रसङ्गः, यत एते मतिज्ञानावरणादिक्षयोपशम रूपोपाधिसम्पादितसत्ताकाः, यथा सूर्यस्य घनपटलावृतस्य मन्दप्रकाशभेदाः कटकुव्याद्यावरणविवरभेदोपाधिसम्पादिताः, ततः कथं ते निःशेषावरणक्षयात् तथारूपक्षयोपशमाभावे भवितुमर्हन्ति । न खलु सकलघनपटलकटकुव्याद्यावरणापगमे सूर्यस्य ते तथारूपा मन्दप्रकाशभेदा भवन्ति, उक्तं च- "कडविवरागयकिरणा मेहंतरियस्स जह दिसस्स । ते कडमेहावगमे न होंति जह वह इमाईपि ॥ १॥" ततो यथा जन्मादयो भावा जीवस्यात्मभूता अपि कर्मोपाधिसम्पादितसत्ताकत्वात्तदभावे न भवन्ति तद्वदाभिनिबोधिकादयोऽपि भेदा ज्ञानस्यात्मभूता अपि मतिज्ञानावरणादिकर्मक्षयोपशमसापेक्षत्वात् तदभावे केवलिनो न भवन्ति, ततो नासर्वज्ञत्वदोषभावः, उक्तं च- "जमिह छडमत्यधम्मा जम्माईया न होंति सिद्धाणं । इय केवलीण-माभिणि बोहा भावंमि को दोस्रो १ ॥१॥ १” (४.८४५) इति ।। अपरस्त्वाह-प्रपश्य वयमुक्तयुक्तितो ज्ञानस्य पञ्चभेदत्वं परममीषां
For Pre & Personal Use Only
~53~
आवरण
भेदे हेतुः
॥ १९ ॥