SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं -1, नियुक्ति: [१], भाष्यं -1, विभागाथा [-], मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्राक दीप अनुक्रम समूलमलापगमस्तावद्यथा यथा देशतो मलविलयः तथा २ देशतोऽभिव्यक्तिरुपजायते, सा च कचित् कदाचित्कथतिदभवतीत्यनेकप्रकारा, तथाऽऽत्मनोऽपि सकलकालकलाकलापावलम्बिनिखिलपदार्थपरिच्छेदकरणकदक्षपारमार्थिकस्वरूप स्थाप्यावरणमलपटतिरोहितस्वरूपस्य यावन्नाद्यापि निखिलकर्मामलापगमस्तावद् यथा यथा देशतः कर्ममलोच्छेदस्तथा तथा देशतस्तस्य विज्ञप्तिरुज्जृम्भते, सा क्वचित् कदाचित्कथञ्चिदित्यनेकप्रकारा, उक्तं च-"मलविद्धमणेय॑तिर्यथाऽनेकप्रकारतः। कर्मविद्धात्मविज्ञप्तिस्तथाऽनेकप्रकारतः ॥१॥” सा चानेकप्रकारता मतिश्रुतादिभेदेनावसेया, ततो यथा मरकतादिमणेरशेषमलापगमसम्भवे समस्तास्पष्टदेशशक्तिव्यवच्छेदेन परिस्फुटरूपैकाभिव्यक्तिरुपजायते तद्वदात्मनोऽपि ज्ञानदर्शन-12 चारित्रप्रभावतो निम्शेषावरणप्रहाणादशेषदेशज्ञानव्यवच्छेदेनैकरूपाऽतिपरिस्फुटा सर्ववस्तुपर्यायसाक्षात्कारिणी विज्ञप्ति-18 रुल्लसति, तथा चोकम्-"यथा जात्यस्य रत्नस्य, निशेषमलहानितः । स्फुटैकरूपाभिव्यक्तिर्विज्ञप्तिस्तद्धदात्मनः॥१॥ ततो मत्यादिनिरपेक्षं केवलज्ञानं, अथवा शुद्ध केवलं तदावरणमठकलङ्कस्यानवयवशोऽपगमात्, सकलं वा केवलं प्रथ-12 मत एवाशेषतदावरणविगमतः सम्पूर्णोत्पत्तेः, असाधारणं वा केवलमनन्यसदृशत्वात् , अनन्तं वा केवलं ज्ञेयानन्तहै त्वाद, केवलं च तत् ज्ञानं च केवलज्ञानं, यथावस्थिताशेषभूतभवद्भाविभावस्वभावावभासिज्ञानमिति भावः, पशब्दो मनःपर्ययज्ञानेन सहास्याप्रमत्तयतिभावादिना साधर्म्यप्रदर्शनार्थः, तथाहि-यथा मनःपर्यवज्ञानमप्रमत्तयतेरेवोदयते तथा केवलज्ञानमपीत्यप्रमत्तयतिसाधये, तथा यथा मनःपर्यायज्ञानं न विपर्ययमासादयति तथा केवलज्ञानमपीति विपर्ययाभावसाधर्म्य, 'पश्चमक'मिति पश्चममेव पञ्चमकं प्राकृतत्वात् स्वार्थे कप्रत्ययः, पञ्चमता चास्य सूत्रक्रमप्रामाण्यानु Indon For the Personal ... केवलज्ञानस्य विशिष्ट-वर्णनं ~48~
SR No.007201
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages307
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy