________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप अनुक्रम
[-]
उपोद्धा
।। १६ ।।
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग - १
अध्ययनं [-], निर्युक्तिः [१], भाष्यं [-] वि० भा० गाथा [ ८९ ], मूलं [- /गाथा -] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
इति, स वासौ ज्ञानं च मनः पर्यवज्ञानं मनःपर्ययज्ञानं वा अपरे - 'मणपजयनाण' मिति पाठेऽपि मनःपर्यायज्ञानमिति शब्दसंस्कारमाचक्षते, तत्रैवं व्युत्पत्तिः- मनांसि - मनोद्रव्याणि पर्येति - सर्वात्मना परिच्छित्ति मनःपर्यायं, 'कर्मणोऽणि' त्यण, मनःपर्यायं च तज्ज्ञानं च मनःपर्यायज्ञानं, यदिवा मनसः पर्यायाः मनःपर्यायाः, पर्याया भेदा धर्मा वाह्यवस्त्वालोचनप्रकारा इत्यर्थः, तेषु तेषां वा सम्वन्धि ज्ञानं मनःपर्यायज्ञानं, इदं चार्द्ध तृतीय द्वीपसमुद्रान्तर्वर्त्तिसंज्ञिमनोगतद्रव्यालम्बनमेव । तथाशब्दोऽवधिज्ञानेन सहास्य छझस्थत्वादिभिः सारूप्यप्रदर्शनार्थः तथाहि - यथाऽवधिज्ञानं छद्मस्थस्य भवति तथा मनः पर्यवज्ञानमपीति छनस्थसाधर्म्य, यथा वाऽवधिज्ञानं रूपिद्रव्यविषयं तथा मनःपर्यवज्ञानमपि तस्य मनःपुद्गलालम्बनत्वादिति विषयसाधर्म्य, तथा यथाऽवधिज्ञानं क्षायोपशमिकभावे वर्त्तते तथा मनःपर्यायज्ञानमपीति भावसाधर्म्य, यथा चावधिज्ञानं प्रत्यक्षं तथा मनःपर्यायमपि, तथाहि अक्षो भण्यते जीवः एतच्च प्रागेवोपपादितं, अक्षं जीवं प्रति साक्षाद्वर्त्तते यत् ज्ञानं तत्प्रत्यक्ष- इन्द्रियमनोनिरपेक्षमात्मनः साक्षात्प्रवृत्तिमत्प्रत्यक्षमित्यर्थः, तच्चावध्यादि त्रिभेदं उक्तं च - " अक्खो भन्नइ जीवो वावणभोयणगुणन्नितो जेणं । तं पइ वट्टइ नाणं जं पञ्चक्खं तयं तिविहं ॥ १॥" (भा. ८९ अक्खो अत्थ.) इति प्रत्यक्ष साधर्म्यं । तथा केवलमेकमसहायं मत्यादिज्ञाननिरपेक्षत्वात्, मत्यादिज्ञाननिरपेक्षता च केवलज्ञानप्रादुर्भावे मत्यादीनामसम्भवात् ननु कथमसम्भवो यावता मतिज्ञानादीनि स्वस्वावरणक्षयोपशमेऽपि प्रादुःष्यन्ति ततो निर्मूलस्वस्वावरणवि लये तानि सुतरां भविष्यन्ति चारित्रपरिणामवत्, उक्तं च - " आवरणदेसविगमे जाई विनंति महसुयाईणि । आवरणसहविगमे कह वाइँ न होति जीवस्सं? ॥ १ ॥" उच्यते इह यथा जात्यस्य सरकतादिमणेर्मलोपदिग्धस्य यावन्नाद्यापि
For P&Personal Use Only
~47~
अन्येषां प्रत्यक्षता
॥ १६ ॥
wjanelibrary.org