________________
आगम
(४०)
“आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-१ अध्ययनं [-], नियुक्तिः [१], भाष्यं [-], विभा गाथा [९५], मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्राक
दीप अनुक्रम
श्रोत्रादीन्द्रियाश्रित ज्ञान परमार्थतः प्रत्यक्षं तत्कथमवग्रहादयः परोक्षत्वेनाप्रेऽभिहिता, तस्मादुसरत्रेन्द्रियाश्रितज्ञानस्य परोक्षत्वेनाभिधानादवसीयते प्रागिन्द्रियाश्रितं ज्ञानं संव्यवहारतः प्रत्यक्षमुक्तं, न परमार्थतः, आईच भाष्यकृत्"एगन्तेण परोक्खं लिंगियमोहाइयं च पञ्चखं । इंदियमणोभव जंतं संववहारपञ्चक्खं ॥१॥"(भा० ९५) इति । तथा अवशब्दोऽधःशब्दार्थः अव-अधोऽधो विस्तृत वस्तु धीयते-परिच्छिद्यतेऽनेनेत्यवधिः, अथवा अवधिः-मर्यादा रूपिष्वेव द्रव्येषु परिच्छेदकतया प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमप्यवधिः, यद्वा अवधान-आत्मनोऽर्थसाक्षात्करणव्यापारोऽवधिः, अवधिश्चासौ ज्ञानं च अवधिज्ञानं, चशब्दः खल्वनन्तरोतज्ञानद्वयेन सहास्य स्थित्यादिभिः साधर्म्यप्रदर्श*नार्थः, तथाहि-यावानेव मतिश्रुतयोरनन्तरमुक्त प्रवाहापेक्षया अप्रतिपतितैकसत्वाधारापेक्षया वा स्थितिकालस्तावानेवाव-II धिज्ञानस्थापीति स्थितिसाधर्म्य, तथा यथैव मतिश्नुते मिथ्यादर्शनोदयतो विपर्ययरूपतामासादयतस्तथाऽवधिज्ञानमपि, तथाहि-मिथ्यादृष्टेतान्येव मतिश्रुतावधिज्ञानानि मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानानि भवन्ति, उक्त च-'आद्यत्रयमज्ञानमपि भवति मिथ्यात्वसंयुक्त"मिति (प्रश.) विपर्ययसाधये, तथा य एव मतिश्रुतज्ञानयोः स्वामी स एवावधिज्ञानस्यापि, तथाहि-विमङ्गज्ञानिनस्त्रिदशादेः सम्यग्दर्शनावाप्तौ युगपदेव मतिश्रुतावधिज्ञानानां लाभसम्भव इति लाभसाधम्य । तथा परि-सर्वतो भावे, अवनमवः, 'तुदादिभ्यो नक्की' इत्यधिकारे 'अकितो वे त्यनेन औणादिकोऽकारप्रत्ययः, अवन गमनं वेदनमिति पर्यायाः, परि अवः पर्यवः, मनसि मनसो वा पर्ययो मनःपर्यवः-सर्वतो मनोद्रव्यपरिच्छेद इत्यर्थः, अथवा मनःपर्यय इति पाठः, तत्र पर्ययणं पर्ययः भावेऽल्प्रत्ययः, मनसि मनसो वा पर्ययो मनःपर्यय:-सर्वतस्तत्परिच्छेद
EARNACOCARE
In contana
For
the Personal
... प्रत्यक्षज्ञानस्य त्रया: भेदा: - अवधि, मन:पर्याय, केवलज्ञान
~46~