________________
आगम
(४०)
"आवश्यक - मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं -], नियुक्ति: [१], भाष्यं -], विभागाथा [-], मूलं -/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
दीप अनुक्रम
उपोद्धाते | विचारिते अवायज्ञानं समीचीनं भवति, ततोऽभ्यासदशापन्नेऽपीन्द्रियसाद्गुण्यावधारणमवसेयं, यदपि चोकम्-'न खलु । ऐन्द्रिय | देवदत्तो हस्तेन भुञ्जानो हस्तव्यापारव्यवहितत्वात् साक्षान्न भोक्तेति ब्यपदेष्टुं शक्य मिति, तदप्ययुगम् , दृष्टान्तदा -15
कस्य न्तिकयोवैषम्याद्, भोक्ता हि भुजिक्रियानुभवभागी भण्यते, भुजिक्रियानुभवश्च देवदत्तस्य न हस्तेन व्यवधीयते, किन्तु ||
परोक्षता साक्षात् , हस्तो हि कवलप्रक्षेप एव व्याप्रियते, न परिच्छेद क्रियायामिन्द्रियमिवाहारक्रियानुभवेऽपि येन व्यवधानं भवेत्, ५ ततो देवदत्तः साक्षायोकेति व्यवहियते, इह तु वस्तूनामुपलब्धिरुक्कनीत्या चक्षुरादीन्द्रियसाद्गुण्यावगमानुसारेणोपजायते है। ततो व्यवधानात् न साक्षादुपलम्भक आत्मेति । नन्विदं सर्वमूत्सूत्रप्ररूपणं, नन्द्यध्ययनसूत्रे हि इन्द्रियाश्रितं ज्ञानं प्रत्य
क्षमुक्तं, तथा च तद्ग्रन्थ:-"पञ्चक्खं दुविहं पन्नत्तं, तंजहा-इंदियपञ्चक्खं नोइंदियपच्चक्खं चे"ति, सत्यमेतत् , किन्त्विदं| लोकव्यवहारमपेक्ष्योक्तं न परमार्थतः, तथाहि-यदिन्द्रियाश्रितमपरव्यवधानरहितं ज्ञानमुदयते तल्लोके प्रत्यक्षमिति र | व्यवस्थितं, अपरधूमादिलिङ्गनिरपेक्षतया साक्षादिन्द्रियमधिकृत्य प्रवर्त्तनात्, यत्पुनरिन्द्रियव्यापारेऽप्यपरं धूमादिकम|पेक्ष्याम्यादिविषयं ज्ञानमुदयते तल्लोके परोक्षं, तत्र साक्षादिन्द्रियव्यापारासम्भवाद्, यत्पुनरात्मन इन्द्रियमप्यनपेक्ष्य साक्षादुपजायते तत्परमार्थतः प्रत्यक्षं, तच्चावध्यादिकं त्रिप्रकार, ततः संव्यवहारमधिकृत्येन्द्रियानितं ज्ञानं प्रत्यक्षमुक्तंद! न परमार्थतः, अथ कथमेतदवसीयते-संव्यवहारमधिकृत्येन्द्रियाश्रितं ज्ञानं प्रत्यक्षमुक्कं न परमार्थतः ।, उच्यते, तत्रैवोत्तरसूत्रार्थपर्यालोचनात्, तथाहि-प्रत्यक्षभेदाभिधानानन्तरं तत्र सूत्र-“परोक्खं दुविहं पन्नत्तं, तंजहा-आभिणियोहिय-18 नाणे सुयनाण'मित्यादि, तत्र आभिनिबोधिकमवग्रहादिरूपमवग्रहादयश्च श्रोत्रेन्द्रियाचालितास्तत्र वर्णिता, तद्यदिता
In En
For
the Personal
Panelibrary.com
~45