________________
आगम
(४०)
“आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं -1, नियुक्ति: [१], भाष्यं -1, विभागाथा [-], मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्तिः
प्रत
सूत्राक
दीप अनुक्रम
स्थितं चोपलभते, यदा तु तिमिराशुभ्रमणनीयानपित्तसक्षोभदेशदवीयस्वाद्यापादितविभ्रमं तदा विपरीतं संशयित वा. ततोऽवश्यमारमा अर्थोपलब्धौ पराधीनः, तथा च सति यथा राजा निजराजदौवारिकेणोपदर्शितं परराष्ट्रराजकीयं पुरुष पश्यन्नपि समीचीनमसमीचीनं वा निजराजदौवारिकवचनत एव प्रत्येति न साक्षात् तद्वदात्माऽपि चक्षुरादिनोपदर्शित बाह्यमर्थ चक्षुरादिप्रत्ययत एवं समीचीनमसमीचीनं, वा वेत्ति न साक्षात्, तथाहि-चक्षुरादिना दर्शितेऽपि बाह्येऽर्थे यदि संशयमधिरूढो भवति तर्हि चक्षुरादिसागुण्यमेव प्रतीत्य निश्चयं विदधाति, यथा न मे चक्षुस्तिमिरोपप्लुतं नौयानाशुभ्रमणाद्यापादितविभ्रम या ततोऽयमर्थः समीचीन इति, ततो यथा राज्ञो नायं मम || राजदौचारिकोऽसत्यालापी कदाचनाप्यस्य व्यभिचारानुपलम्भादिति निजदीवारिकस्य साद्गुण्यमवगम्य परराष्ट्रराजको| यपुरुषसमीचीनतावधारणं परमार्थतः परोक्षं, तद्वदात्मनोऽपि चक्षुरादिसाद्गुण्यावधारणतो वस्तुयाथात्म्यावधारणं परमार्थतः परोक्ष, नन्विदमिन्द्रियसाद्गुण्यावधारणतो वस्तुयाथात्म्यावधारणमनभ्यासदशामुपगतस्य, अभ्यासदशामाप-* नस्त्वभ्यासप्रकर्षसामादिन्द्रियसाद्गुण्यमनपेक्ष्यैव साक्षादवबुद्ध्यते, ततस्तस्येन्द्रियाश्रितं ज्ञानं कथं प्रत्यक्षं न भवति ? तदसम्यक्, अभ्यासदशामापन्नस्यापि साक्षादनववोधात्, तस्यापीन्द्रियद्वारेणावबोधप्रवृत्तेरवश्यमिन्द्रियसाद्गुण्यापेक्षणात् , केवलमभ्यासप्रकर्षवशात् तदिन्द्रियसागुण्यं झटित्येवावधारयति पूर्वावधतं वा झटित्येव विनिश्चिनोति, ततः काल-1*
सौक्षम्यासनोपलभ्यते, इत्थं चैतदङ्गीकर्तव्य, यतोऽवश्यमवायज्ञानमवग्रहहापूर्व, ईहा च विचारणामिका, विचारश्चेन्द्रिदायसागुण्यसभूतवस्तुधर्माश्रितः,अन्यथैकतरविचाराभावेऽवायज्ञानसम्यग्ज्ञानत्वायोगात्, न खस्विन्द्रिये वस्तुनि च सम्यग
44
on Education in
For
the Personal
B
ryam
~44~