________________
आगम
(४०)
प्रत
सूत्रांक -
दीप
अनुक्रम
[-]
उपोद्घाते
॥ १४ ॥
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग - १
अध्ययनं [-], निर्युक्तिः [१], भाष्यं [ - ], वि० भा० गाथा [ ९१, ९२], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
धान्येनानुभूतेऽर्थेऽन्यस्य स्मरणं, मा प्रापदतिप्रसङ्गः, अपिच - मा भूच्चक्षुषोऽपगमस्तथापि यदि चक्षुरेव द्रष्टृ ततः स्मरणमात्मनो न भवेत्, अन्येनानुभूतेऽ ऽन्यस्य स्मरणायोगाद्, भवति च स्मरणमात्मनः, चक्षुषः स्मर्तृत्वेनाप्रतीतेः अनभ्युपगमाच्च, तस्मादात्मैवोपलब्धा नेन्द्रियमिति, तथा चात्र प्रयोगः - यो येवूपरतेष्वपि तदुपलब्धानर्थान् स्मरति स तत्रोपलब्धा, यथा गवाक्षोपलब्धानामर्थानामनुस्मर्त्ता देवदत्तः, अनुस्मरति च द्रव्येन्द्रियोपलब्धानर्थान् द्रव्येन्द्रियापगमेऽप्यात्मा, इह स्मरणमनुभवपूर्वकतया व्याप्तं व्याप्यव्यापकभावञ्चानयोः प्रमाणतः प्रतिपन्नः, तथाहि — योऽर्थोऽनुभूतः सं स्मर्यते न शेषः तथा स्वसंवेदनप्रत्यक्षेण प्रतीतेः, विपक्षे चातिप्रसङ्गो बाधकं प्रमाणं, अननुभूतेऽपि विषये यदि स्मरणं |भवेत्ततोऽननुभूतत्वाविशेषात् खरविषाणादेरपि स्मरणं भवेदित्यतिप्रसङ्गः, तथा द्रव्येन्द्रियापगमेऽपि तदुपलब्धार्थानुस्मरणादात्मोपलब्धेति स्थितम् उक्तं च- "केसिंचि इंदियाई अक्खाई तदुवरुद्ध पञ्चक्खं । तन्नो ताई जमचेथणाई | जाणंति न घडो व ॥१॥ उवलद्धा तत्थाया तविगमे तदुचल द्धसरणातो । गेहगवक्खोवरमेऽवि तदुवलद्धाणुसरिया वा ॥ २ ॥ ॥” | ( भा० ९१-९२) अत्र वाशब्द उपमार्थः, अपरे पुनराहु:- न वयमिन्द्रियाणामुपलब्धत्वं प्रतिजानीमहे, किं त्वेतदेव ब्रूमो - यदिन्द्रियद्वारेण प्रवर्त्तते ज्ञानमात्मनि तत्प्रत्यक्षं न चेन्द्रियव्यापारव्यवहितत्वादात्मा साक्षान्नोपलब्धेति वक्तव्यं, इन्द्रि | याणामुपलब्धि प्रति करणतया व्यवधायकत्वायोगात्, न खलु देवदत्तो हस्तेन भुञ्जानो हस्तव्यापारव्यवहितत्वात् साक्षान्न भोक्तेति व्यपदेष्टुं शक्यं, तदेतदसमीचीनं, सम्यकू वस्तुतत्त्वापरिज्ञानात् इह हि यदाऽऽत्मा चक्षुरादिकमपेक्ष्य बाह्यमर्थमवबुध्यते तदाऽवश्यं चक्षुरादेः साढण्याद्यपेक्षते, तथाहि यदा सद्गुणं चक्षुः तदा बाह्यमर्थ स्पष्टं यथाव
For P&Personal Use Only
~43~
आत्मनो द्रष्टृता
॥ १४ ॥
anelibrary.org