________________
आगम
(४०)
"आवश्यक - मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं -1, नियुक्ति: [१], भाष्यं -1, विभागाथा [-], मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्राक
दीप अनुक्रम
याणि, नचायमसिद्धो हेतुः, यतो नाम द्रव्येन्द्रियाणि निवृत्युपकरणरूपाणि 'निर्वृत्त्युपकरणे द्रव्येन्द्रिय' (त० अ०२ सू०१७) इति वचनात्, निवृत्त्युपकरणे च पुद्गलमये, पुद्गलमयं च सर्वमचेतनं, पुद्गलानां काठिन्यानवबोधरूपतया चैतन्य प्रति धर्मित्वायोगात्, धर्मानुरूपो हि सर्वत्रापि धर्मी यथा काठिन्य प्रति पृथिवी, यदि पुनरनुरूपत्वाभावेऽपि धर्मधम्मिभावो भवेत् ततः काठिन्यजलयोरपि स भवेत्, न च भवति, तस्मादचेतना पुद्गलाः, उकंच-"बोहसहावममुत्तं विसयपरिच्छेयगं च चेयणं । विवरीयसहावाणि य भूयाणि जगप्पसिद्धाणि ॥१॥ ता धम्मधम्मिभावो कहमेएसिं तहऽम्भुवगमे य । अणुरूवत्ताभावे काठिन्नजलाण किन्न भवे ॥२॥ (धर्मसंग्रहणी) इति, नापि सन्दिग्धौनकान्तिकता | हेतोः शङ्कनीया, अचेतनस्योपलम्भकत्वशक्त्ययोगाद्, उपलम्भकत्वं हि चेतनाया धर्मः, ततः स कथं तदभावे भवितुमहेति !, आह-प्रत्यक्षबाधितेयं प्रतिज्ञा, साक्षादिन्द्रियाणामुपलम्भकत्वेन प्रतीतेः, तथाहि-चक्षु रूपं गृहृदुपलभ्यते करें| शब्दं नासिका गन्धमित्यादि, तदेतन्महामोहावष्टब्धान्तःकरणताविलसितं, तथाहि-आत्मा शरीरेन्द्रियैः सहान्योऽन्यानुविधेन व्यवस्थितः, ततोऽयमात्मा अमूनि चेन्द्रियाणि इति विवेकुमशक्नुवन्तो बालिशजन्तवः तत्रापि युष्मादृशां कुशास्त्र
सम्पर्कतः कुवासनासङ्गमः, ततः साक्षादुपलम्भिकानीन्द्रियाणि इति प्रतिपन्नाः, परमार्थतः पुनरुपलब्धा तत्रात्मैव, कथ|मेतदवसीयते इति चेत्, उच्यते, तद्विगमेऽपि तदुपलब्धार्थानुस्मरणात्, तथाहि-कोऽपि पूर्व चक्षुषा विवक्षितमर्थ गृही-1 तवान् ततः कालान्तरे दैवविनियोगतश्चक्षुषोऽपगमेऽपि स तमर्थमनुस्मरति, तत्र यदि चक्षुरेव द्रष्टु स्यात् ततश्चक्षुषोऽभावे तदुपलब्धार्थानुस्मरणं न भवेत्, न वामनाऽसौ अर्थोऽनुभूतः किन्तु चक्षुषा, चक्षुष एव साक्षात् द्रष्टुत्वेनोपगमात्, न
Jan Education International
For
the Personal
~42~