________________
आगम
(४०)
“आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं -1, नियुक्ति: [१], भाष्यं -1, विभागाथा [-], मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्राक
शब्दस्य विनयादिपाठाभ्युपगमात् 'विनयादिभ्य' इत्यनेन स्वार्थे इकण, 'अतिवर्तन्ते स्वार्थे प्रत्ययकाः प्रकृतिलिङ्गवचनानी'ति वचनादत्र नपुंसकता, यथा विनय एव बैनयिकमित्यत्र, अथवा अभिनिवुध्यते अनेनास्मादस्मिन्वेति अभिनिबोध:-तदावरणकर्मक्षयोपशमस्तेन निवृत्तमाभिनिवोधिक, आभिनिबोधिकं च तत् ज्ञानं च आभिनिबोधिकज्ञान-इन्द्रियमनोनिमित्तो योग्यदेशांवस्थितवस्तुविषयः स्फुटप्रतिभासो बोधविशेष इत्यर्थः, तथा श्रवणं श्रुतं-वाच्यवाचकभावपुरस्सरीकारेण शब्दसंपृष्टार्थग्रहणहेतुरुपलब्धिविशेषः, एवमाकारं वस्तु जलधारणाद्यर्थक्रियासमर्थ घटशब्दवाच्यमित्यादिरूपतया प्रधानीकृतत्रिकालसाधारणसमानपरिणामः शब्दार्थपर्यालोचनानुसारी इन्द्रियमनोनिमित्तोऽवगमविशेष इत्यर्थः, श्रुतं च तत् ज्ञानं च श्रुतज्ञानं, अथवा श्रूयतेऽनेन अस्मात् अस्मिन् वेति श्रुतं-तदावरणकर्मक्षयोपशमा, 'कृद्बहुल मिति वचनात् करणादावपि कप्रत्ययः, तज्जनितं ज्ञानमपि श्रुतं, कार्ये कारणोपचारात्, शृणोतीति वा श्रुतं-आत्मा तदनन्य
स्वात् ज्ञानमपि श्रुतं, श्रुतं च तत् ज्ञानं चेति समासः, चशब्दस्वनयोः स्वामिकाल कारणविषयपरोक्षत्वसाधम्योत्तुल्यकक्षसातोद्भावनाः , तथाहि-य एव मतिज्ञानस्य स्वामी स एव श्रुतज्ञानस्यापि, 'जत्थ महनाणं तत्थ सुयनाणं जस्थ सुयनाणं|
तत्थ मइनाण'मिति वचनात्, ततः स्वामिसाधर्य, तथा यावानेव मतिज्ञानस्य स्थितिकालस्तावानेव श्रुतज्ञानस्यापि, तत्र | प्रवाहापेक्षया अतीतानागतवर्जनानरूपः सर्व एव कालः अप्रतिपतितकजीवापेक्षया तु पट्पष्टिसागरोपमाणि समधिकानि,
उकंच-"दो वारे विजयाइसु गयस्स तिन्निए अहव ताई। अइरेगं नरभवियं नाणाजीवाण सबदा ॥१॥" (भा०२७६२) दाइति कालसाधम्र्य, यथा च इन्द्रियानिन्द्रियनिमितं मतिज्ञान तथा श्रुवज्ञानमपीति कारणसाधम्र्य, तथा यथा मति
।
दीप अनुक्रम
In con
For
the Personal
~40