________________
आगम (४०)
“आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-१ अध्ययनं [-], नियुक्ति: [-], भाष्यं [-], विभा गाथा [६२,६५-६७], मूलं -/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
3U
प्रत सूत्रांक
दीप अनुक्रम
(अ)प्रतिबन्धं पर्यालोचयतः तदर्शनेनानध्यवसायो, यदिवा यहच्छया भवेत् प्रतिपत्तिः, आह -"संसयविवजया वाउण-15
झवसाओऽहवा जहिच्छाए । होजत्थे पडिवची न वत्थुधम्मो जा नामं ॥१॥ (भा० ६२)न चैतत् दृश्यते, तस्मात् वस्तुधर्मो नाम, तदेव चैकं तात्त्विक, तद्वशादेव सकलव्यवहारप्रवृत्तेन स्थापनादय इत्येवमुक्के स्थापनानय आह-आकार एव वस्तु, तत्रैव बुद्ध्यभिधानप्रवृत्तिक्रियोपलम्भात्, तथाहि-प्रत्यक्षत आकारवदेव वस्तु परिगृह्यते, तदेव च शब्देनाप्यभिधीयते, तत्रैव च पुरुषस्य प्रवृत्तिः, अर्थक्रियामपि च तदेव करोतीत्याकार एव तात्त्विको न नामादयः, तथा च प्रयोगः यदाकाररहितं न तद्वस्तु, यथा गगनेन्दीवरं, आकाररहितं च पराभिमतं नामादि, उक्तं च-"न पराणुमयं पत्थु आगाराभावओ खपुष्पं व । उवलंभववहाराऽऽभावाओ नाणगारं च ॥१॥" (भा०६५) अत्र पूर्वार्द्ध सुगम, उत्तरार्द्धस्य व्याख्यानमिद-न अनाकारं वस्तु उपलम्भाभावात् व्यवहाराभावाच्च । एवं स्थापनानयेनोक्ते द्रव्यनय आह-! तात्विकोत्पादव्ययरहितं यनिर्विकारमाविर्भावतिरोभावमात्रपरिणामात्मक द्रव्यं तदेवैकं तात्त्विकं, तस्यैव प्रत्यक्षादिना प्रमाणेनोपलभ्यमानत्वात् , यत्तु तदतिरिच्य स्थापनानयेन प्रोच्यते तदसद्, द्रव्यातिरेकेणान्यस्याकारस्योपलम्भाभावात् , उक्तं च-“दवपरिणाममेत्तं मोत्तूणागारदरिसणं किं तं?। उपायबयरहियं दवं चिय निधियारं तं ॥१॥ आविम्भावतिरोभावमेतपरिणामकारणमचिंतं । निचं बहुरूवंपिव नडोव वेसंतरावन्नो ॥२॥" (भा०६६-६७) इति, इतश्च द्रव्यं तात्त्विकं कारणत्वात् मृत्पिण्डपयःप्रभृतिवत्, यचाकारणं न तद वस्तु, यथा गगनकुसुम, अकारणं च पराभिमतमाका. पदीति । एवं द्रव्यनयेनाभिहिवे भावनयः प्राह-भाव एव पारमार्थिको न द्रव्यं, तस्यानुपलम्भाव,म हि मृत्पिण्ड
in Ede
~36~