SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक H दीप अनुक्रम [-] उपोद्घाते ॥ ११ ॥ “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग - १ अध्ययनं [-], निर्युक्ति: [ - ], भाष्यं [-] वि० भा० गाथा [-], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः शिवकस्यासकोशकुशूलादिभावेभ्यो व्यतिरिक्तमन्वयिनमर्थं पश्यामः, न चापश्यन्तः प्रतिपत्तुं शकुमः मा प्रापदत्यन्ता|सतोऽपि षष्ठभूतादेरभ्युपगमप्रसङ्गः, अथ द्रव्यमन्तरेण कथमिव भावानामुत्पत्तिरुपपद्यते ? तस्मादवश्यं द्रव्यमभ्युपगन्तव्यं, तदसम्यक्, प्रतीत्योत्पादवादस्य सम्यग्व्यवस्थितत्वात्, तथाहि पूर्व भावं कारणत्वेन प्रतीत्योत्तरो भावः समुत्पद्यते, पूर्व व कारणं कार्योत्पत्तिसमये स्वत एव विनिवर्त्तते, तस्य क्षणमात्रावस्थायित्वात्, उत्तरोऽपि च भावस्तदुत्तरभावं प्रति कारणभावमनुभूय द्वितीयक्षणे न भवति, सर्वभावानां क्षणमात्रावस्थानात्, 'क्षणिकाः सर्वसंस्कारा' इति वचनात्, एवमेकैकांशावलम्बिनो नामादितया मिथ्यादृशः एकांशाभ्युपपमपरतया सम्पूर्णवस्तुसंस्पर्शित्वायोगात्, वस्तुनोऽनेकधर्मत्यात्, भगवदर्हन्मतं तु सर्वनयसमूहात्मकमतोऽनेकांशावलम्वि, किन्त्येकांशविचारप्रक्रमेऽपीतरांशसापेक्षत्वात् सम्पूर्णवस्तुग्राहीति प्रमाणं, तथाहि - नामापि च वस्तुधर्मस्तस्य तत्प्रत्यय हेतुत्वात्, आकारोऽपि तात्त्विकस्तस्य प्रत्यक्षादिना | प्रमाणेनाविसंवादितयोपलम्भात्, द्रव्यमपि च प्रमाणं, तदभावे भावानामत्यन्तासतां खरविषाणस्येवोत्पादायोगात्, भावा अपि च तात्त्विका द्रव्यस्य विचित्रशक्तिकतया तथा तथापरिणमनभावात्, तथा चाहुः स्तुतिषु गुरवः-"अन्योऽन्यपक्षप्रतिप| क्षभावावू, यथा परे मत्सरिणः प्रवादाः । नयानशेषानविशेषमिच्छन्, न पक्षपाती समयस्तथा ते ॥ १ ॥ आद्यस्तुतिकारोऽप्यवोचत् -"नयास्तव स्यात्पदलाञ्छना इमे, रसोपविद्धा इव लोहधातवः । भवन्त्यभिप्रेतफला यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः ॥ १ ॥ तती नामादयोऽपि भाववत् ताविका इति तेषामप्युपन्यासः ॥ अथ सर्वज्ञशासने सकलनयमूलभूतौ द्वावेव नयौ, तद्यथा द्रव्यास्तिकनयः पर्यायास्तिकनयश्च तथा चाहुः श्रीमलवा For Pete & Personal Use Only ~37~ नामादीना सापेक्षता ॥ ११॥
SR No.007201
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages307
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy