________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्तिः [१३६ ], भाष्यं [-] वि० भा० गाथा [-] मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
घापि तेषां भगवदाज्ञावर्त्तित्वादल्पपापभाजां मिध्यादुष्कृतादिमात्रेणापि विशुद्धिरुपजायते, शिष्यस्तु भगवदाज्ञाविलो| पत्तो गुर्वाशातनायाश्चोपचिताशुभगुरुकर्मा दीर्घतरसंसारभागी, किश्च एवं स वर्त्तमानो मतिमानपि श्रुतरलाद्वहिर्भवति, अन्यत्रापि तस्य दुर्लभ श्रुतत्वात्, को हि नाम सचेतनो दीर्घतरजीविताभिलापी सर्पमुखे स्वहस्तेन पयोबिन्दून् प्रक्षिपतीति, स एकान्तेनायोग्यः । प्रतिपक्षभावनायामपीदमेव कथानकं परिभावनीयम्, केवलमिह घृतघटे भन्ने सति द्वावपि तौ दम्पती त्वरि| तत्वरितं कपरैर्यथाशक्ति घृतं गृहीतवन्तौ स्तोकमेव विननाश, निन्दति चात्मानमाभीरो यथा-ही न मयां घृतघटस्ते सम्यक् समर्पितः, आभीर्यपि वदति - समर्पितस्त्वया सम्यक् न मया सम्यक् गृहीतः, तत एवं तयोर्न कोपावेशदुःखं नापि घृत| हानिः नापि सकाल एवान्यसार्थिकः सह स्वग्राममभिसर्पतामपान्तराले तस्करावस्कन्दः, ततस्तौ सुखभाजनं जातो, एवमि हापि कथञ्चिदनुपयोगादिनाऽन्यथारूपे व्याख्याने कृते सति पश्चादनुस्मृतयथावस्थितव्याख्यानेन सूरिणा शिष्यं पूर्वमुक्कं व्याख्यानं चिन्तयन्तं प्रति एवं वक्तव्यम्-वत्स ! मैवं व्याख्यः, मया तदानीमनुपयुक्तेन व्याख्यातं, तत एवं व्याख्याहि, तत | एवमुक्ते सति यो विनेयः कुलीनो विनीतात्मा स एवं प्रतिवदति-यथा भगवन्तः किमन्यथा प्ररूपयन्ति १, केवलमहं मतिदौर्बल्यादन्यथाऽवगतवानिति, स एकान्तेन योग्यः ॥ तदेवमाचार्य शिष्यदोषगुणकथन लक्षणो व्याख्यानविधिः प्रतिपादितः सम्प्रति कृतमङ्गलोपचारो व्यावर्णितप्रसङ्गविस्तरः प्रदर्शितव्याख्यानविधिरुपोद्घातं प्रतिपादयति
आवश्यक मलयगिरिजी वृत्तेः पूर्वार्धस्य प्रथमो भाग समाप्तः द्वितिय भागस्य आरंभ: निर्युक्ति: [ १३५, १३६ ], १ से २६ द्वारैः कृतः आवश्यक- मूलसूत्र- [४० / १] निर्युक्ति एवं मलयगिरिसूरिजी रचिता टीका परिसमाप्ताः मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब किंचित् वैशिष्ट्य समर्पितेन सह पुनः संकलनकर्ता मुनि दीपरत्नसागरजी ।
| [M.Com.,M.Ed.,Ph.D., श्रुतमहर्षि]
Jan Education International
~ 306~
www.janelibrary.org