________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
उपोद्घातनिर्युतिः
॥ १४५ ॥
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्तिः [१३६ ], भाष्यं [-] वि० भा० गाथा [-] मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र -[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
| दुःशीले ! कामविडम्बितमानसा तरुणिमाभिरमणीयं पुरुषान्तरमवलोकसे, न सम्यग्वारकमभिगृहासि, ततः सा खरपरुषवाक्यश्रवणतः समुद्भूत कोप वेशवशोच्छलित कम्प कम्पितपीनपयोधरा स्फुरदधरबिम्बोष्ठी दूरोत्पाटित वरेखाधनुरवष्टम्भतो नाराचश्रेणिमिव कृष्णकटाक्षसन्ततिमविरतं प्रतिक्षिपन्ती प्रत्युवाच - हा ग्रामेयकाधम ! घृतघटमप्यवगणय्य विदग्ध| मत्तकामिनीनां मुखारविन्दान्यव लोकसे, न चैतावता अवतिष्ठसे, ततः खरपरुषवाक्यैर्मामप्यधिक्षिपसि, ततः स एवं प्रत्युकोऽतीव ज्वलितकोपानलो यत्किमप्यसम्बद्धं भाषितुं लग्नः साऽप्येवं, ततः समभूत्तयोः केशाकेशि, ततो बिसंस्थुलपादादिन्यासतः सकलमपि प्रायो गन्त्रीघृतं भूमौ निपतितं तच्च किञ्चिच्छोपमुपगतं अवशेषं चावलीढं श्वभिः, गन्त्रीघृतमपि शेषीभूतमपहृतं पश्यतोहरैः, सार्थिका अपि स्वं स्वं घृतं विक्रीय स्वग्रामगमनं प्रपन्नाः, ततः प्रभूतदिवसभागातिक्रमेणापसृते युद्धे स्वास्थ्ये च लब्धे यत्किश्चित् प्रथमतो विक्रीणयामास घृतं तद्रव्यमादाय तयोः स्वग्रामं गच्छतोः अपान्तरालेऽस्तं गते सहस्रभानौ सर्वतः प्रसरमभिगृहति तमोविताने परास्कन्दिनः समागत्य वासांसि द्रव्यं बलीवद्द चापहृतवन्तः, तत एवं तौ महतो दुःखस्य भाजनमजायेतां एष दृष्टान्तोः, अयमर्थोपनयः यो विनेयोऽन्यथा प्ररूपयन्नधीयानो वा खरपरुषवाक्यराचार्येण शिक्षितोऽषिक्षेपपुरःसरं प्रतिवदति - यथा त्वयैवेत्थमहं शिक्षितः, किमिदानीं निम्हुषे ? इत्यादि, स न केवलमात्मानं संसारे पातयति, किन्वाचार्यमपि खरपरुषप्रत्युच्चारणादिना तीव्रतीव्रतरकोपानलज्वालनात्, भवन्ति च कुविनेया मृदोरपि गुरोः खरपुरुषप्रत्युच्चारणादिना कोपप्रकोपकाः, उर्फ चोत्तराध्ययनेषु - 'अणासवा धूलवया कुसीला, मितंपि चंडं पकरिंति सीसा' इति, अपिच-गुरवो गुणगुरवः, ततस्ते यदि कथमपि दुष्टशैक्षशिक्षापनेन कोपमुपागमंत- *
For Pevate & Personal Use Ony
~305~
अनुयोगे
दृष्टान्ताः
॥ १४५ ॥
janelibrary.org