________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्तिः [१२९], भाष्यं [-] वि० भा० गाथा [ १३८९ ], मूलं [- /गाथा - ] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र - [१] “आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
उपोद्घात- १ प्रवचनादीनामे कार्थिका भिधानप्रक्रमस्तथाप्यनुयोगस्वानुयोगादीनामेकार्धिकानां मेदोपन्यासेनान्वाख्यानमर्थगरीयस्त्वनिर्युक्तिः ख्यापनार्थम्, उकं च - " सुत्तहरा अत्थहरो अत्थहरा होइ तदुभयधरो छ ।” इत्यादि, तत्रानुयोगाख्यप्रथमद्वारस्वरूपं * व्याचिख्यासुराह
॥१३०॥
नामं ठवणा दविए, खित्ते काले वयण-भावे य । एसो अणुओगस्सा, निक्खेवो होइ सत्तविहो ॥ १२९ ॥
नामानुयोगो यस्य जीवादेरनुयोग इति नाम क्रियते, नानो वा अनुयोगो नामानुयोगो-नामव्याख्या, यदिवा नानाअनुरूपो योगो नामानुयोगः, उक्तं च- "नामस्स जोडणुयोगो, अहवा जस्साभिहाणमणुयोगो। नामेण व जो जोभ्गो जोगो नामाणुजोगो सो ॥ १ ॥” (वि. १३८९) स्थापना - अक्षनिक्षेपादिरूपा, तत्र योऽनुयोगं कुर्वन् स्थाप्यते सोऽनुयोगानुयोगवतोरमेदोपचारात् स्थापनानुयोगः, स्थापना चासावनुयोगश्च स्थापनानुयोगः, यदिवा स्थापनाया अनुयोगो-व्याख्या स्थापनानुयोगः अथवा यः स्थापनाया अनुकूलो योगः-सम्बन्धः किमुक्कं भवति १-यस्य स्थापना स्थाप्यमाना देशकालाद्यपेक्षया युक्ता प्रतिभासते इति स स्थापनानुयोगः, उक्तं च- "ठवणाए जोऽणुयोगोऽणुयोग इति वा ठवेज्जए जं तु । जा बेह जस्स ठवणा जोग्गा ठवणाणुजोगो सो ॥ १ ॥” द्रव्यानुयोगो द्विधा-आगमतो नोआगमतच, तत्र आगमतोऽनुयोगपदार्थज्ञाता तत्र चानुपयुक्तः, 'अनुपयोगो द्रव्य मिति वचनात्, नोआगमतस्त्रिधा तद्यथा-ज्ञशरीरद्रव्यानुयोगो भव्यशरीरद्रव्यानुयोगस्तद्व्यतिरिक्तश्च तत्र ज्ञशरीर भव्यशरीरे प्रसिद्धे, तद्व्यतिरिक्तस्त्वनेकधा-द्रव्यस्य द्रव्याणां द्रव्येण द्रव्यैर्द्रव्ये द्रक्येषु वा अनुयोगो द्रव्यानुयोगः, एवं क्षेत्रादिष्वपि षद्भेदयोजना कार्या, तत्र द्रव्यस्यानुयोगो
Jan Education
For Pitate & Personal Use Only
~275~
अनुयोगे
पर्यायाः
निक्षेपाश्च १२८-९
॥१३०॥
wjinslibrary.org