________________
आगम (४०)
"आवश्यक - मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-१ अध्ययनं १, नियुक्ति: [१२८], भाष्य , वि०भागाथा [१३८१-१३८६], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
दीप अनुक्रम
मार्गःमार्ग वा मार्गः, शिवस्यान्वेषणमिति भावः, पप-"मजिज्बा सोहिंजा, जेणचा पवयणं तओमग्गो। अहवा |सिवस्स मग्गो, मग्गणमन्नेसणं पंथो ॥२॥"(वि.१३८१)इति, तथा प्रगतमभिविधिना जीवादिषु पदार्थेषुवचनं प्रावचन,प्रवच-13 नमुक्तशब्दार्थम्, उकानि पञ्च प्रवचनैकार्थिकानि, सम्पति पञ्च सूत्रैकार्थिकान्याह-'मुत्त'मित्यादि, सूचनात् सूत्र, तन्यतेऽनेन अस्मादस्मिन्निति वा तवं प्रभ्यतेऽनेन अस्मादस्मिमिति वा अर्थ इति अन्था, प्रथ्यते इति वा ग्रन्थः, पठनं पाठः पठ्यते. वा तदिति पाठः, पठ्यते-व्यक्त क्रियतेऽनेन अस्मादस्मिन्नभिधेयमिति वा पाठः, तथा शिष्यतेऽनेनास्मादस्मिन्निति वा ज्ञेयमात्मा वा इति शास्त्रम् , एकाधिकानीति पुनरभिधानं सामान्यविशेषयोः कथञ्चि दख्यापनार्थमिति ।। अथ अर्थकार्थिकानि वक्तव्यानि, तत्र अर्थों व्याख्यानमनुयोग इत्यनर्थान्तरम् , अतोऽनुयोगैकार्थिकानि विभणिपुराहअणुओगो य निओगो, भास विभासा य वत्तियं चेव । एए अणुओगस्स उ, नामा एगट्ठिया पंच ॥ १२८॥ __ सूत्रस्यार्थेन सहानुकूलं योजनमनुयोगः अथवाऽभिधेये व्यापारः सूत्रस्य योगः अनुकूलोऽनुरूपो वा योगोऽनुयोगा। यथा घटशब्देन घटस्य प्रतिपादनमिति, उक्तं च-"अनुयोजणमणुजोगो सुयस्स नियएण जमभिधेएणं । वावारो वा जोगो, जो अणुरूवोऽणुकूलो वा ॥" (वि. १३८६) तथा नियतो निश्चितो वा योगः-सम्बन्धी नियोगः, यथा घटशब्देन घटस्यैव प्रतिपादनं न पटादेरिति, तथा भाषणं भाषा व्यक्तीकरणमित्यर्थः, यथा घटनात् घटा, चेष्टावानर्थों घट इति, तथा विविधा भाषा विभाषा-पर्यायशब्दैः स्वरूपकथनं यथा घटः कुटः कुम्भ इति, वार्तिकं त्वशेषपर्यायकथनमिति, एतान्यनुयोगस्य नामान्येकार्थिकानि पञ्च, एष गाथासमुदायार्थोऽवयवार्थे तु प्रतिद्वारं वक्ष्यति, तत्र यद्यपि
CAMERA
JanEduranon Inoernational
wwwjainitiorary.org
... अत्र अनुयोगस्य वर्णनं क्रियते
~2744