________________
आगम (४०)
"आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं , नियुक्ति: [११४,११५], भाष्यं H, विभा गाथा , मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
स
दीप अनुक्रम
तपरिहारविशुद्धिककल्पप्रतिपत्त्यसम्भवाद्, अतीतनयमधिकृत्य पुनः पूर्वप्रतिपनश्चिन्त्यमानः सवेदो वा भवेदवेदो वा, तत्र | सवेदः श्रेणिप्रतिपत्त्यभावे, उपशमश्रेणिप्रतिपत्तौ क्षपकश्रेणिप्रतिपत्तौ वा त्ववेद इति, उक्तंच-"वेदो पवित्तिकाले इत्थी-100 वजो य होइ एगयरो।पुवपडिवनगो पुण, होज सवेदो अवेदो वा॥१॥ (पंचव. १४९७)” कल्पद्वारे स्थितकल्प एवायं, नास्थितकल्पे, 'ठियकप्पंमि य नियमा'इति वचनात् , तत्र 'आचेलकु १ देसिय २ सिज्जायर ३ रायपिंड ४ किइकम्मे ५ टा वय ६ जेठ ७ पडिक्कमणे ८ मासं ९ पजोसवणकप्पे १० ॥१॥ (पंच. १५००) इत्येवंरूपेषु दशसु स्थानेषु ये स्थिताः साधवस्तेषां कल्पः स्थितकल्पः, ये पुन:-"सेजायरपिंडमी चाउजामे य पुरिसजेढे य । किइकम्मस्स य करणे चत्वारि अवट्ठिया कप्पा ॥१॥" । इत्येवंरूपेषु चतुर्ववस्थितेषु कल्पेषु स्थिताः शेषेषु चाचेलक्यादिषु षट्सु अस्थितास्तत्कल्पोस्थितकल्पः उक्तं च-"ठिय अद्वितो य कप्पो, आचेलकाइएसु ठाणेसु । सबेसु ठिया पढमो चाठिय छसु अट्ठिया बीओ| ॥१॥" (पंच. १४९९) लिङ्गद्वारे नियमतो द्विविधेऽपि लिङ्गे भवति, तद्यथा-द्रव्यलिङ्गे भावलिङ्गे च, एकेनापि विना विवक्षितकल्पोचितसामाचार्ययोगाद, लेश्याद्वारे तेजःप्रभृतिकासु उत्तरासु तिसृषु विशुद्धासु लेश्यासु परिहारविशुद्धिक कल्पं प्रतिपद्यन्ते, पूर्वप्रतिपन्नः पुनः कथञ्चित्सर्वास्वपि लेश्यासु भवति, तत्रापीतरासु अविशुद्धासु लेश्यासु नात्यन्तं सड़क्लिष्टासु वर्तते, तथाभूतासु च तासु वर्तमानो न प्रभूतं कालमवतिष्ठते, किन्तु स्तोकं, यतः स्ववीर्यवशात् झटित्येव ताभ्यो व्यावर्चते, अथ प्रथमत एव कस्मात्मवर्चते ?, उच्यते-कर्मवशात् , उक्कं च-"लेसासु विसुद्धासु य पडिवजह तीसुन उण सेसासु । पुषपडिवनतो पुण होजा वासुवि कहंचि ॥१॥नचंतसंकिलिट्ठासु थोवकालं च हंदि इयरासु । चिचा
%A4%2
बास.२१
In Education
For PiaNAParamal-Un Dil
~256~