________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
उपोद्घातनिर्युक्तिः
॥ १०८ ॥
Jan Education
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः+वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्ति: [ ९८-१०० ], भाष्यं [-] वि० भा० गाथा [-], मूलं [- /गाथा - ] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
तत आह-चरणगुणैः विविधम्- अनेकप्रकारं प्रकर्षेण हीनश्चरणगुणविप्रहीणः, ततः सुबह्णपि जानन् निमज्जति, अथवा निश्चयन यदर्शनेनासावप्यज्ञ एव, ज्ञानफलशून्यत्वाद्, अतो निमज्जतीति प्रकृतमेवार्थे समर्थयमान आह सुबहुपि सुयमहीयं किं काही चरणविप्पहीणस्स ! | अंधस्स जह पलिता दीवसय सहस्सकोडीवि ॥ ९८ ॥ -सुबहपि श्रुतमधीतं चरणविप्रहीणस्य निश्चयतोऽज्ञानमेव, तत्फलाभावात् ततस्तत्सदपि किं करिष्यति ? न किविदपि, अकिञ्चित्करमेवेति भावः, अत्रैव दृष्टान्तमाह-अन्धस्य यथा दीपशतसहस्रकोट्यपि, प्रदीष्ठानां दीपानां शतसह - स्राणि तेषां कोटी, अपिशब्दात् तद्द्व्यादिकोटयोऽपि, आह च भाष्यकृत् - "संतंपि तमण्णाणं नाणफलाभावओ सुबहुयंपि । सक्किरियापरिहीणं, अंधस्स पदीव कोडीवि ॥ १ ॥” व्यतिरेकमाह
अपि सुमहीयं पगासयं होइ चरणजुत्तस्स । एक्कोऽवि जह पईयो, सचक्खुयस्सा पयासेइ ॥ ९९ ॥ अल्पमपि श्रुतमधीतं ' चरणयुक्तस्य' सावद्येतरयोगनिवृत्तिपरिणामरूपचरणलक्षणचक्षुष्मतः प्रकाशकं भवति - हेयोपादेवार्थप्राप्तिपरिहारप्रदर्शकमुपजायते, चरणानुगतयथावस्थितशुद्धपरिणामरूपचक्षुरुपेतत्त्वाद्, तत्रैव दृष्टान्तमाह-एकोऽपि यथा प्रदीपः सचक्षुष्कस्य प्रकाशयति । आह-नन्वित्थं सति चरणरहितानां ज्ञानसम्पत् सुगतिफलापेक्ष या निरर्थिका प्राप्नोति, सत्यमेवमेतत्, इष्यते एव निरर्थिका, यत आह
जहा खरो चंदणभारवाही, भारस्स भागी नहु चंदणस्स । एवं खु नाणी चरणेण हीणो, नाणस्स भागी नहु सुग्गईए ॥ १०० ॥
For Pitate & Personal Use Only
~231~
चरणोपदेशः
९७-१००
॥ १०८ ॥
wanslibrary.org