________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
उपोद्घात
निर्युक्तिः
॥ १०७ ॥
“आवश्यक" - मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्तिः [ ९४ ९६], भाष्यं [-] वि० भा० गाथा [-] मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
*
सारशब्दः फलवचनः, चरणस्य संयमतपोरूपस्य सारः फलं निर्वाणम्, इहापि शैलेश्यवस्थाभावि सर्वसंवररूपथारित्रमन्तरेण निर्वाणस्याभावात् तद्भावे चावश्यंभावादिति प्रधानभावमधिकृत्य उपन्यस्तम्, अन्यथा शैलेश्यवस्थायामपि क्षायिकज्ञानदर्शने स्त इति सम्यग्ज्ञानदर्शनादिरूपरत्नत्रयस्य समुदितस्यैव निर्वाणहेतुत्वमिति ॥ तथा चाह नियुक्तिकारःसुयमाणम्मिवि जीवो बहंतो सो न पाउण मोक्खं । जो तव-संजममइए जोगे न चएइ वोढुं जे ॥ ९४ ॥ श्रुतज्ञाने अपिशब्दान्मत्यादिष्वपि ज्ञानेषु जीवो वर्त्तमानः सन् न प्राप्नोति मोक्षमित्यनेन प्रतिज्ञार्थः सूचितः, यः किंविशिष्ट इत्याह-यस्तपःसंयममयान्- तपःसंयमात्मकान् योगान् न शक्नोति वोदुमित्यनेन हेत्वर्थः, जे इति पादपूरणे 'इजेराः पादपूरणे' इति वचनात् दृष्टान्तस्तु स्वयमभ्युद्यो वक्ष्यति वा, प्रयोगः-न ज्ञानमेवेप्सितार्थप्रापकं सत्क्रियाविरहात् स्वदेशप्रात्यभिलषितगमनक्रियाशून्यमार्गज्ञज्ञानवत्, सौत्रो वा दृष्टान्तः, मार्गज्ञनिर्यामकाधिष्ठितेप्सित दिकूसम्यापक पवनक्रियाशून्यपोतवत् ॥ तथा चाह
जह छेयलद्धनिजाम ओऽवि वाणियगइच्छियं भूमिं । वाएण विणा पोओ न चएह महण्णवं तरिडं ॥ ९५ ॥ तह नाणलद्धनिजामओऽवि सिद्धिवसहिं न पाउण । निउणोऽवि जीवपोओ तब संजममाख्यविहीणो ॥ ९६ ॥ ' यथा ' येन प्रकारेण 'छेको' दक्षो 'लब्धः' प्राप्तो निर्यामको येन पोतेन स तथाविधः अपिशब्दात् सुकर्णधाराद्य| धिष्ठितोऽपि वणिज इष्टा वणिणिष्टा तां भूमिं महार्णवं तीर्त्वा वातेन विना पोतों न शक्नोति, प्राप्तुमिति वाक्यशेषः, उपनय | माह तथा श्रुतज्ञानमेव लब्धो निर्यामको येन जीवपोतेन स तथाविधः, अपिशब्दात्सुनिपुणमतिकर्णधाराद्य विष्ठितोऽपि,
For Pitate & Personal Use Only
मोक्ष प्राप्तौ संयमस्य मुख्यतायाः कथनं
229~
संयमस्य
मुख्यता ९४-६
11 800 11
wjainslibrary.org