________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
उपोद्घातनकिः
॥ ९९ ॥
Jain Education Im
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्तिः [ ८१], भाष्यं [-] वि० भा० गाथा [१०५८ ], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
सव्यपेक्षत्वात्, आह व "एको भावः सर्वथा येन दृष्टः सर्वे भावा: सर्वथा तेन दृष्टाः । सर्वे भावाः सर्वथा येन दृष्टाः, एको भावः सर्वथा तेन दृष्टः ॥ १ ॥” आचाराङ्गेऽप्युक्तम्- "जे एगं जाणइ से सबं जाणइ, जे सर्व जाणह से एगं जाणइ” इति, ( ८-१२३) अथवा ये खसिद्धान्ते छद्मस्थवीतरागास्तेऽनुचरपराक्रमा भवन्ति, कपायादिशत्रूणामाक्रमणात्, न त्वमितज्ञानिनः, केवलज्ञानाभावात्, ततस्तद्व्यवच्छेदार्थमिदं विशेषणमिति, तथा तरन्ति स्म भवार्णवमिति तीर्णास्तान्, तीर्त्वा च भवौघं सुगतिगतिगतान्, तत्र सर्वज्ञत्वात् सर्वदर्शित्वाच्च निरुपमसुखभागिनः सुगतयः - सिद्धास्तेषां गतिः सुगतिगतिः, अनेन तिर्यङ्नरनारकामरगतिव्यवच्छेदेन पञ्चमीं मोक्षगतिमाह, तां गताः - प्राप्ताः सुगतिगतिगतास्तान्, अनेन ये प्राप्ताणिमाद्यष्टविधैश्वर्य स्वेच्छाविलसनशीलं पुरुषं तीर्ण प्रतिपादयन्ति तथा च तद्ग्रन्थः- "अणिमाद्यष्टविधं | प्राप्यैश्वर्य कृतिनः सदा । मोदन्ते सर्वभावज्ञास्तीर्णाः परमदुस्तरम् ॥१॥" इत्यादि, तद्द्व्यवच्छेदमाह, तथा सिद्धेः- पश्चमग|तिरूपायाः पन्थाः सिद्धिपथः तस्य प्रधाना देशकास्तद्धेतुभूतसामायिकादिप्रतिपादनात् प्रदेशकाः सिद्धिपथप्रदेशकास्तान्, | अनेनानेक भव्यसत्त्वोपकारितीर्थकरनामकर्म्मविपाकोदयसमन्वितं भगवतां स्वरूपमाह । एवं तावदविशेषेण ऋषभादीनां | मङ्गलार्थं वन्दनमुक्तमिदानीमखिल श्रुतज्ञानार्थप्रदेशकत्वेनासन्नोपकारित्वाद्वर्त्तमानतीर्थाधिपतेर्वर्द्धमानस्वामिनो वन्दनमाहदामि महाभागं महामुणिं महायसं महावीरं । अमरनररायमहियं वित्थयरभिमस्स तित्थस्स ॥८१॥ 'वंदामीत्यादि दीपकमशेषोत्तरपदानुयायि द्रष्टव्यं तत्र भागः - अचिन्त्यशक्तिः, आह च माष्यकृत् - "भागोऽचिंता सत्ती स महाभागो महष्यभावोति । स महामुणी महंतं जो मुणइ मुणिष्पहाणो वा ॥ १॥ (वि.१०५८) इति, महान्
|... भगवन् महावीरस्य स्तुति एवं वंदन
For Pityte & Personal Use Only
~213~
तीर्थकरणन्दनम्
॥ ९९ ॥
www.jainslibrary.org