________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप अनुक्रम
[-]
Jan Education h
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्ति: [ ८२ ], भाष्यं [-] वि० भा० गाथा [१०५८ ], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
भागोऽस्य महाभागो - महाप्रभावस्तं, तथा मनुते मन्यते वा जगतस्त्रिकालावस्थामिति सुनिः सर्वज्ञत्वात, महांश्चासौ मुनिश्र | महामुनिः, तथा त्रैलोक्यव्यापित्वाम्महद्यशोऽस्येति महायशास्तं, महावीरमित्यभिधानं, तस्येयं व्युत्पत्तिः शूर वीर विक्रान्ती' | कषायादिशत्रुजयात् महाविक्रान्तो महावीरः, यरिवा 'ड विदारणे' विदारयति कर्म्मरिपुसङ्घातमिति वीरः, अथवा अनन्यानुभूतमहातपःश्रिया विशेषतो राजते इति वीरः, अन्तरङ्गमहामोहवलनिईलनाय तपोवीर्यमनन्तं व्यापारयतीति वा वीरः, पृषोदरादित्वादिष्टरूपनिष्पत्तिः, उक्तं च-“विदारयति यत्कर्म्म, उपसा च विराजते । तपोवीर्येण युक्तच, तस्माद्वीर | इति स्मृतः ॥ १ ॥” तथा अमराश्च नराश्य अमरनरास्तेषां राजानः- इन्द्रचक्रवर्त्तिप्रभृतयस्तै मे हितः -पूजितस्तं, तीर्थकरंतीर्थकरणशील, कस्य तीर्थस्य करणशीलमित्यत आह- अस्य वर्त्तमानकालावस्थायिनस्तीर्थस्य । एवं तावदर्थवतुर्मङ्गलार्थ वन्दनमुक्तम्, इदानीं सूत्रकर्तृप्रभृतीनामपि पूज्यत्वाद्वन्दनमाह
कारसवि गणहरे पवायए पवयणस्स वंदामि । सवं गणहरवंसं वायगवंसं पवणं च ॥ ८२ ॥ एकादशेति सङ्ख्यावाचकः शब्दः, अपिः समुच्चये, अनुत्तरं ज्ञानदर्शनादिधर्म्मगणं धारयन्तीति गणधरास्तान, प्रकर्षेण प्रधाना आदौ वा वाचकाः प्रवाचकास्तान्, कस्य प्रवाचकाः १, प्रवचनस्य- द्वादशाङ्गस्य, वन्दे, एवं तावत् मूलगणधरवन्दनं कृतं, | तथा सर्वे - निरवशेषं गणधरा - आचार्यास्तेषां वंशः - परम्परया प्रवाहस्तं तथा वाचका उपाध्यायास्तेषां वंशखं, तथा प्रवचनम् - आगमं च वन्दे, आह च-तीर्थकृतो मूलगणधराश्च वन्द्याः स्युः, तेषां यथाक्रममर्थसूत्रप्रणेतृत्वात्, वंशद्वयस्य प्रवचनस्य च कथं कन्द्यता, उच्यते, इह यथा अर्थवकारोऽर्हन्तो वन्द्याः सूत्रवकारश्च गणधराखथा यैरिदमाचार्योपाध्यायैरर्यसूत्ररूपं प्रवचनमा
... गणधर आदेः वंदना
For Pitate & Personal Use Only
~ 214~
www.jinslibrary.org