________________
आगम
(४०)
प्रत सूत्रांक
[-]
दीप अनुक्रम
[-]
智友:送
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्तिः [ ८० ], भाष्यं [-] वि० भा० गाथा [९६०, ९६१, ९७०], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
तर्हि प्रतिद्वारं प्रत्यध्ययनं प्रतिसूत्रं च वक्तव्यमिति, ततः कश्चिदेवं प्रतिविधानमाह मार्क्स हि शाखखादी मध्येऽवसाने चेति प्रतिपादितं, तत्रादिमङ्गलं ज्ञानपञ्चकरूपमुक्तमिदानीं मध्यमङ्गलमुच्यते इति, तदेतदयुक्तं, शाखमेव हि तावन्नारभ्यते, अनारब्धे तु शास्त्रे कुतो मध्यावकाश इति । अथ ब्रूयात् चतुरनुयोगद्वारं शास्त्रम्, अत एव चानुयोगद्वाराणां शास्त्राङ्गना, तलेोऽनुयोगद्वारद्वये उपक्रमनिक्षेपरूपेऽतिक्रान्ते मध्यावकाश इति भवति मध्यमङ्गलावसरः, नन्वेवमपीदं शास्त्रमध्यं न भव, अध्ययनमध्यत्वात्, शास्त्रमध्ये व मध्यमङ्गलाबसर इति यत्किञ्चिदेतत्, तस्मादयमत्र पक्षः श्रेयान्इह यत दी मह प्रतिपादितं तदावश्यकस्यादिमङ्गलं, इदं तु वक्ष्यमाणं न आवश्यकस्य, किन्तु सर्वानुयोगोपयोग्युपो घातनिर्युक्तिरूपः प्रकान्त उपोद्घातः तस्य, सर्वानुयोगोपयोगित्वेनास्य महार्थत्वात् कथञ्चित् शास्त्रान्तरत्वात्, तथा च सर्वानुयोगोपयोगितामेव दर्शयन् वक्ष्यति "आवस्सयस्स दसकालियस्स तह उत्तरज्झमायारे । सूयगडे निज्जुतिं बोच्छामि तहा दसाणं च ॥ १ ॥” इत्यादि, तथा “सेसेसुवि अज्झयणेसु होइ एसेव निजत्ती' इत्यत्र शेषेष्वप्यभ्ययनेषु| चतुर्विंशतित्तवादिष्विति, आह— सामायिकान्वाख्यानेऽधिकृते कोऽत्र दशवैकालिकादीनां प्रस्तावो येन तदुत्क्षेपोऽत्र | क्रियमाणः शोभते ?, उच्यते, उपोद्घातसामान्यात्, तथाहि तेषामपि प्रायः खल्वयमेवोपोद्घातः, स्तोको विशेषः, स च स्वस्वनिर्युको वक्ष्यते इत्यदोषः इत्यलं प्रपचेन । तत्रोपोद्घातस्यादिमङ्गलमाह
तित्थपरे भगवंते अणुत्तरपरकमे अभियनाणी । तिने सुगइगइगए सिद्धिपहपदेसए वंदे ॥ ८० ॥
तीर्थे कुर्वन्तीत्येवंशीलास्तीकराः, 'हेतुतच्छीलानुकुडेवि 'त्यादिना टः प्रत्ययः, अर्थ तीर्थमिति कः शब्दार्थः १, उच्यते,
Jan Education
... अत्र तीर्थंकरस्य विशेषण सह वंदना क्रियते
For Pitate & Personal Use Only
~208~
www.jinslibrary.org