________________
आगम
(४०)
"आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं H. नियुक्ति: [७९], भाष्यं H. वि०भा०गाथा [९४३], मूलं F /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
8952
दीप अनुक्रम
H
तैश्चत्वारो गुण्यन्ते जाताः चतुर्विशतिः तया पञ्च गुण्यन्ते जातं विशं शतं, तेन षट् गुण्यन्ते, जातानि विशानि सप्त भङ्गकशतानि ७२०, इह च प्रथमभङ्गः पूर्वानुपूर्वीरूपःचरमभङ्गस्तु पश्चानुपूर्वीरूपस्तदपनयनेऽष्टादशोत्तराणि सप्त शतानि | सर्वसङ्ख्यया अनानुपूर्वीभङ्गकपरिमाणं, अथवेयमनानुपूर्वीभङ्गकानामानयनोपायभूता करणगाथा-"पुवाणुपुधि हेहा सम| याभेएण कुण जहाजेई । उवरिमतुल्लं पुरओ नसेज पुबक्कमो सेसे॥१॥"(वि.९४३) अस्या अपीयमक्षरगमनिका-इह विवक्षितपदानां क्रमेण स्थापना पूर्वानुपूर्वी, तस्या अधस्ताद् द्वितीयादिभङ्गकान जिज्ञासुः कुरु-स्थापय एकादिपदानीति शेषः, कथमित्याह-ज्येष्ठस्यानतिक्रमेण यथाज्येष्ठं, यो यस्यादौ स तस्य ज्येष्ठः, यथा एकको द्विकस्य ज्येष्ठः, त्रिकस्यानुज्येष्ठा, चतुष्कादीनां तु ज्येष्ठानुज्येष्ठः, एवं त्रिकस्य द्विको ज्येष्ठः, स एव द्विकश्चतुष्कस्यानुज्येष्ठः पञ्चकादीनां ज्येष्ठानुज्येष्ठः, एवं सत्युपरितनाङ्कस्याधस्तात् ज्येष्ठो निक्षिप्यते तस्मिन्नलभ्यमानेऽनुज्येष्ठस्तस्मिन्नप्यलभ्यमाने ज्येष्ठानुज्येष्ठ इति यथाज्येष्ठ निक्षेपं कुरु, किमनियमेन, नेत्याह-'समयाभेदेन' समयः-संकेतः प्रस्तुतभङ्गरचना व्यवस्था तस्य अभेदः-अनतिक्रमः तेन समयाभेदेन निक्षेपं कुरु, समयस्य च भेदस्तदा भवति यदा तस्मिन्नेव भजनके निक्षिप्ताङ्कसदृशोऽपरोऽप्यङ्कः समापतति, तत एवम्भूतं समयभेदं वर्जयन्नेव ज्येष्ठाद्यङ्कनिक्षेपं कुरु, उक्तं च-"जहियम्मि उ निक्खित्ते, पुणरवि सो चेव अंकविनासो। सो होइ समयभेदो वजयवो पयत्तेणं ॥१॥"(अनु.चू.) निक्षिप्तस्य चाकस्य पुरस्तात्-अग्रतः उपरितना: तुल्यं-सदृशं यथा
मवति एवं न्यसेत् , उपरितनाङ्कसदृशानेवाङ्कान् पुरतः स्थापयेदित्यर्थः, 'पुश्वक्कमो सेसे' इति यथासङ्ख्यं निक्षिप्ताङ्कस्य दि यथासम्भवं पृष्ठतः शेष-पद्धरितशेषाङ्कानाम् पृष्ठतस्तानेवोद्धरित शेषान् पूर्वक्रमेण स्थापयेत्, यः समया लघुः स प्रथम
an Education
wwwjainitiorary.org.
~202