________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्तिः [७९], भाष्यं [-] वि० भा० गाथा [ ९३१-९३४] मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
| समादिष्टश्च विनीततया प्रसिद्धो राजपुत्रः - कुतोमुखी गङ्गा वहतीति शोधय, तेनोक्तम्- किमिह शोधनीयं ?, बालानामपि प्रतीतमेतत् - पूर्वाभिमुखी गङ्गा प्रवहतीति, राज्ञा प्रोचे-किमिति त्वमत्रैव वितण्डावादं करोषि ?, गत्वा निरीक्षस्व तावत्, ततो मनस्यसूयां वहन् बहिः संवृतिं कृत्वा महता कष्टेन ततः प्रदेशान्निर्गतः, सिंहद्वारे च गच्छन् केनापि मित्रेण पवृच्छे-भद्र ! क्व गतव्यं ?, तेनासूयया प्रोकम्-अरण्ये रोझानां लवणदानार्थ, ततो मित्रेणोक्तम्- कोऽयं व्यतिकरो ?, राजपुत्रेण सर्वमपि राजादिष्टं निवेदितं, मित्रेणोक्तं- यदि राज्ञो ग्रहः संलग्नः तत्किं तवापि संलग्नः ?, गत्वा निवेदयनिरीक्षिता मया गङ्गा, पूर्वाभिमुखी वहति, तथैवानुष्ठितं राजपुत्रेण, प्रच्छन्नहेरिकेण च निवेदितं राज्ञस्तच्चेष्टितं, ततो बिलक्षेण राज्ञा प्रोक्तम्- भव्यं साधुरपि परीक्ष्यतां, ततो यः कश्चिदविनीतो राज्ञा लक्षितस्तद्विषये राज्ञा परीक्षार्थं प्रतिपादितेन गुरुणाऽभिहितः स शिष्यो गत्वा निरीक्षस्व केन मुखेन गङ्गा बहतीति, तत्र पूर्वाभिमुखी गङ्गा बहतीति गुरवोऽपि विदन्ति, परमत्र केनापि कारणेन भवितव्यमिति चेतसि निश्चित्य तेन प्रोकम् - इच्छाम्यादेशमिति एतच्चाभिधाय निर्गतः प्राप्तो गङ्गां निरीक्षिता सा स्वयं तदनन्तरं पृष्टा परेभ्यः तदनु शुष्कतृणादिवाहने नान्वयव्यतिरेकाभ्यां निश्चिता, ततो निवेदितमागत्य गुरुभ्यः - इत्थमित्थं च मया निश्चितं पूर्वाभिमुखी गङ्गा वहतीति, प्रच्छन्नहेरिकेणाप्यस्य सर्वे निवेदितं, ततोऽभ्युपगतं सहर्षेण राज्ञा गुरुवचनमिति । ननु यद्येवं गुरुभावोपक्रम एवाभिधातव्यो न शेषा निष्प्रयोजनत्वात्, तदयुक्तं, गुरुचित्तप्रसादनार्थं तेषामुपयोगित्वात्, तथाहि देशकालावपेक्ष्य परिकर्मनाशौ द्रव्याणामुदक|दनादीनामाहारादिकार्येषु कुर्वन् हरति विनेयो गुरूणां चेतः, अथवोपक्रमसामान्यात् प्रकृते निरुपयोगा अप्यन्यत्रोपयो
For Pitate & Personal Use Only
~ 200~
jainslibrary.org