SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग - १ अध्ययनं [-] निर्युक्तिः [७९], भाष्यं [-] वि० भा० गाथा [ ९२६], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः उपोदास निर्युक्तिः ॥ ९१ ॥ ४ व्यस्य शिक्षापादनं, वस्तुविनाशे खद्गादिभिर्विनाशः । कारकयोजना स्वधिया भावनीया, तद्यथा— द्रव्यस्य द्रव्याणां द्रव्येण द्रव्यैर्वा द्रव्ये द्रव्येषु वा उपक्रमो द्रव्योपक्रमः, तत्र द्रव्यस्योपक्रमो यथा एकस्य पुरुषस्य शिक्षाकरणं, द्रव्याणामुपक्रमो यथा तेषामेव बहूनां द्रव्येणोपक्रमो यथा फलकेन समुद्रतरणं, द्रव्यैरुपक्रमो बहुभिः यथा फलकैर्नावं निष्पाद्य समुद्रोल्लङ्घनं द्रव्ये उपक्रमो यथा कस्याप्येकस्मिन् फलके उपविष्टस्य शिक्षाकरणं, द्रव्येषूपक्रमो वह्नषूपविष्टस्य, तथा क्षेत्रस्योपक्रमः क्षेत्रोपक्रमः, सोऽपि द्विधा - परिकर्मणि वस्तुविनाशे च ननु क्षेत्रमाकाशं 'खेत्तं खलु आगास' मिति वचनात्, तश्चामूर्त्त नित्यं च ततः कथं तस्य परिकर्म्मविनाशोपपत्तिः १, उच्यते, इह तद्व्यवस्थितद्रव्यपरिकर्मविनाशौ भवतः | उपचारेण खलु क्षेत्रस्यापि परिकर्म्मविनाशौ व्यपदिश्येते भवति च तात्स्थ्यात्तद्द्व्यपदेशो, यथा-मञ्चाः क्रोशन्ति, ततो न कश्चिद्दोषः, तत्र परिकर्म्मणि क्षेत्रोपक्रमो नावा समुद्रस्योलङ्घनं हलकुलिकादिभिर्वा इक्ष्वादिक्षेत्रस्य परिकर्म्मणा, वस्तुविनाशे क्षेत्रोपक्रमो गजवन्धनादिभिः क्षेत्रस्य विरूपीकरणं, तथा कालो नाम वर्त्तनादिरूपत्वात् द्रव्यपर्यायः, ततो द्रव्यस्य परिकर्म्मणि वस्तुविनाशे वा कालस्यापि तावुपचर्येते इति कालोपक्रमः, उक्तं च - "जं वत्तणाइरूवो कालो दद्याण चेव पज्जाओ। ता तकरणविणासे कीरइ कालोवयारोत्थ (उ) ॥१॥ (वि. ९२६) अथ ये वर्त्तनादिरूपमेव कालमिच्छन्ति तम्मतेन कालोपक्रम एवंरूपो भवतात्, यस्तु लोकप्रसिद्धो घटिका मुहूर्त्तप्रहरादिरूपस्तस्य कथं परिकर्म्मरूपो विनाशरूपश्च उपक्रमः १, २ ॥ ९१ ॥ उच्यते, इह यत् शङ्कादिच्छायया नाडिकया वा यथार्थ प्रहरादिपरिज्ञानं स परिकर्म्मणि कालोपक्रमः, यत्तु ग्रहनक्षत्रादिचारविशेषैर्विरूपीभवनं स वस्तुविनाशे कालोपक्रमः, आह च- "छायाऍ नालियाए व परिकम्मं से जहत्थविण्णाणं । रिक्खा For Pityte & Personal Use Only ~197~ उपक्रमाः anorary.org
SR No.007201
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages307
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy