________________
आगम
(४०)
"आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं H, नियुक्ति: [७९], भाष्यं , विभा गाथा H1, मूलं F /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] “आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
दीप अनुक्रम
परिकर्मणि द्विपदोपक्रमो यथा पुरुषस्य वर्णादिकरणमथवा कर्णस्कन्धवर्द्धनादि, अन्ये तु शास्त्रगन्धर्वनृत्यादिकलासम्पादनमपि द्रव्योपक्रमं व्याचक्षते, तदसाधु, शास्त्रादिपरिज्ञानस्य विज्ञानविशेषात्मकत्वात् तदुपक्रमस्य भावोपक्रमत्वात् , यदिवा आत्मद्रव्यसंस्कारविवक्षया द्रव्योपक्रमत्वेऽप्यविरोधः, एवं शुकशारिकादीनामपि शिक्षागुणविशेषकरणं भावनीय, तथा चतुष्पदानां हस्त्यादीनां शिक्षागुणविशेषकरणं चतुष्पदोपक्रमः, अपदानां वृक्षादीनां वृक्षायुर्वेदोपदेशाद्वार्धक्यादिगुणापादनमपदोपक्रमः । ननु यत्स्वयं कालान्तरभाब्युपक्रम्यते यथा तरोर्वार्धक्यादि तत्र परिकर्मणि द्रव्योपक्रमता युक्ता, वर्णकरणं कलादिसम्पादनं च कालान्तरेऽपि विवक्षितहेतुजालमन्तरेण नोपपद्यते ततः कथं तस्य परिकर्मणि द्रव्योपक्रमता !, नैष दोषः, विवक्षितहेतुजालमन्तरेण नोपपद्यते इत्यस्यासिद्धत्वात् , वर्णो हि नामकर्मविषाकोदयसम्भवी कलादयोऽपि च ज्ञानावरणकर्मक्षयोपशमभाविनः, ततो विवक्षितहेतुजालमन्तरेणापि कालान्तरे स्वयमप्यते सम्भवन्ति, विभ्रमविलासादीनां युवावस्थायां तथा दर्शनात् , ततः स्वयं कालान्तरभाविनामेतेषां अर्वाक् विवक्षितहेतुजालेन | सम्पादनं उपपद्यते परिकर्मण्युपक्रमणमिति, वस्तुविनाशे तु पुरुषादीनामुपक्रमणं खङ्गादिभिर्विनाशः। आह-परिकमै. वस्तुविनाशयोरभेद एव, उभयत्रापि पूर्वरूपपरित्यागेनोत्तरावस्थापत्तेरविशिष्टत्वात् , तदसम्यक्, परिकर्मोपक्रमजनितोत्तररूपापत्तौ हि प्राणिनामविशेषेण प्रत्यभिज्ञानाद्युपजायते, वस्तुनाशोपक्रमसम्पादिते तूत्तरधर्मे वस्तुन्यदर्शन मिति महान है
विशेषः, अथवा एकत्र नाश एव विवक्षितो नोचरावस्थेत्यदोषः, अचित्तद्रव्योपक्रमः परिकम्मणि यथा पद्मरागमणेः मासू. १६वारमृत्पुटपाकादिना वैमल्यापादन, व तुविनाशे विनाशः, मिश्रद्रव्योपक्रमः परिकर्मणि कटकादिविभूषितपुरुषादिद्र
In Education
For Prats a persona unan
Jainitiorary.org
~1964