________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप अनुक्रम
[H]
“आवश्यक" - मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं []-], निर्युक्तिः [७९], भाष्यं [-] वि० भा० गाथा [-], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
इति कायोत्सर्गाध्ययने व्रणचिकित्सा अर्थाधिकारः, इदमुकं भवति चारित्रपुरुषस्य योऽयमतिचाररूपो भावगणस्तस्य | दशविधप्रायश्चित्तभेषजेन कायोत्सर्गाध्ययने चिकित्सा प्रतिपादयिष्यते इति, 'गुणधारणा चेवे' ति प्रत्याख्यानाध्ययने गुणधारणा अर्धाधिकारः, इदमत्र हृदयम् - मूलगुणोत्तरगुणप्रतिपत्तिस्तस्याश्च निरतिचारसन्धारणं यथा भवति तथा | प्रत्याख्यानाध्ययने प्ररूपणा करिष्यते, चशब्दादन्ये चापान्तरालार्थाधिकारा विज्ञेयाः, एवकारोऽवधारणे इति गाथार्थः॥ एतेषां चार्थाधिकाराणां प्रत्यध्ययनमर्थाधिकारद्वार एवावसरः, केवलमिह प्रसङ्गत उक्ताः । तदेवमावश्यक श्रुतस्कन्धानां न्यास उक्तः, इदानीमध्ययनन्यासप्रस्तावः तं चानुयोगद्वारक्रमायातं प्रत्यध्ययनमोघनिष्पन्ने नामनिष्पन्ने च लाघवार्थ वक्ष्यामः, एप आवश्यकस्य समुदायार्थः, साम्प्रतमवयवार्थप्रदर्शनाय एकैकाध्ययनं वक्ष्यामः, तत्र प्रथममध्ययनं सामाविकं प्रथमता चास्य समभावलक्षणत्वाच्चतुर्विंशतिस्तवादीनां च तद्भेदत्वात्, अस्य च सामायिकाध्ययनस्य महापुरस्येव चत्वारि अनुयोगद्वाराणि भवन्ति, अनुयोगो नाम सूत्रस्य व्याख्यानं तस्य द्वाराणीव द्वाराणि तत्प्रवेशमुखानि अनुयोगद्वाराणि यथा हि अकृतद्वारं नगरमनगरमेव भवति, कृतैकद्वारमपि हस्त्यश्वरथजनसङ्कुलत्वात् दुःखसञ्चारं कार्याति पत्तये च जायते, कृतचतुर्मूलप्रतोलीद्वारं तु सप्रतिद्वारं सुखनिर्गमप्रवेशं कार्यानतिपत्तये च सामायिकपुरमप्यर्थाधि. गमोपायद्वारशून्यमशक्याधिगमं भवति, कृतैकानुयोगद्वारमपि कृच्छ्रेण द्राघीयसा च कालेनाधिगम्यते, विहितसप्रभे| दोपक्रमादिद्वारचतुष्टयं तु सुखाधिगममल्पीयसा च कालेनाधिगम्यते, ततः फलवाननुयोगद्वारोपन्यासः, उक्तं च---- “अणुओगद्दाराई महापुरस्सेव तस्स चत्तारि । अणुओगोत्ति तदत्यो, दाराई तस्स उ मुहाई ॥ १ ॥ अकयद्दारमनगर,
Jan Education International
••• अत्र अनुयोगद्वाराणि दर्शयते
For Pitate & Personal Use Only
~194~
www.janlibrary.org