________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [H]
उपोद्घातनिर्युतिः
॥ ८६ ॥
Jan Education in
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्तिः [७९], भाष्यं [-] वि० भा० गाथा [८३८-८३९ ], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
सम्प्रति मङ्गलसाध्यः प्रकृतोऽनुयोग उपदर्श्यते स च स्वपरप्रकाशकत्वात् गुर्वायत्तत्वाच श्रुतज्ञानस्य, उच सो मइनाणाईणं कयरस्स ? सुयस्स, जं न सेसाई । होंति पराहीणाई, न य परवोहे समत्थाई ॥ १ ॥ पाएण पराहीणं, दीवोब परप्पवोहगं जं च । सुयनाणं तेण परप्पवोहणत्थं तदणुयोगो ॥ २ ॥ (वि.८३८-९) आह- नन्वावश्यकस्यानुयोगः प्रकृत एव, पुनः श्रुतज्ञानस्येत्ययुक्तं, नैष दोषः, आवश्यकमिदं श्रुतान्तर्गतमित्येतदर्थप्रदर्शकत्वादेतद्वाक्यस्य, ननु यदि आवश्यकस्यानुयोगस्तर्हि तदावश्यकं किमङ्ग अङ्गानि श्रुतस्कन्धः श्रुतस्कन्धाः अध्ययनमध्ययनानि उद्देशक उद्देशकाः?, उच्यते, आवश्यकं | श्रुतस्कन्धः अध्ययनानि च न शेषा विकल्पाः, उक्तं च-"आवस्सयं नो अंगं नो अंगाई सुयक्खंधो नो सुअक्खंधा नो अज्झयणं अज्झयणा नो उद्देसो नो उद्देसगा इति”, (अनु. ६) ननु नन्दीव्याख्याने अङ्गानङ्गप्रविष्टश्रुतनिरूपणायामनङ्गसंज्ञा प्रतिषा|दितैव, ततः कथं किमङ्गमङ्गानीत्याशङ्कासम्भवः, सत्यमेतत्, केवलं तद्व्याख्यानानियमप्रदर्शनार्थमेतद्वाक्यमित्यदोषः, न | खत्यवश्यं शास्त्रादौ नन्द्यध्ययनार्थकथनं कर्त्तव्यमिति नियमः, अकृते चाशङ्कासम्भव इति, ननु शास्त्रस्यादाववश्यं मङ्गलार्थं । नन्द्यभिधानं तावत् कर्त्तव्यम्, ततः कथमनियमः, नैष दोषः, ज्ञानपञ्चकाभिधानमात्रस्यैव मङ्गलत्वात् तथाहि -ज्ञान|पञ्चकाभिधानमात्रमेवावश्यं शास्त्रस्यादौ मङ्गलार्थ कर्त्तव्यम्, नत्ववयवार्थाभिधानं, अवयवार्थानभिधाने चाशङ्कासम्भवः, किच- आवश्यकव्याख्यानारम्भे शास्त्रान्तरव्याख्यानारम्भोऽसमीचीनोऽप्रस्तुतत्वात् शाखान्तरं च नन्दी, पृथक् श्रुतस्कन्धत्वात्, यद्येवमिहावश्यक श्रुतस्कन्धानुयोगप्रारम्भे किमिति नन्यनुयोगः कृतः?, उच्यते-शिष्यानुग्रहार्थे, न पुनरेष नियम इति ख्यापनार्थम्, अथवा अपवादपदप्रदर्शनार्थम्, तथाहि कदाचिदुत्कलितप्रज्ञ विनीत पुरुषापेक्षया तदनुग्रहार्थे उत्क्र
For Pivate & Personal Use Only
187~
नन्दी
व्याख्या
ऽ नियम;
॥ ८६ ॥
wjainslibrary.org