________________
आगम
(४०)
"आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-१ अध्ययनं H. नियुक्ति: [१६], भाष्यं H. वि०भा०गाथा [७३८], मूलं F /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
दीप अनुक्रम
मध्यगतः, अथान्तगत इति कः शब्दार्थः१, उच्यते, इह पूर्वाचार्यप्रदर्शितमर्थत्रयम्, अन्ते-आत्मप्रदेशानां पर्यन्ते गतः| स्थितोऽन्तगतः, कात्र भावनेति चेत्, उच्यते-इहावधिरुत्पद्यमानः कोऽपि स्पर्द्धकरूपतयोत्पद्यते, स्पर्द्धकंच नाम अवधिज्ञानप्रभावा गवाक्षजालादिद्वारविनिर्गतप्रदीपप्रभाया इव प्रतिनियतो विच्छेदविशेषः, तथा चाह भाष्यकृत्स्वोपज्ञभाग्यटीकायां-"स्पर्द्धकमवधिविच्छेदकविशेष" इति, तानि च एकजीवस्यासोयानि सोयानि वा भवन्ति, यद्धस्यतिफडा व असंखेजा संखेजे यावि एगजीवस्स' (वि. ७३८) इति, तानि च विचित्ररूपाणि कानिचित्पर्यन्तव[चिषु मात्मप्रदेशेषूत्पद्यन्ते, तत्रापि कानिचित्पुरतः कानिचित्पृष्ठतः कानिचिदधोभागे कानिचिन्मध्यवर्तिवारमप्रदेशेषु, तत्र यः पर्यन्तवर्तिष्वात्मप्रदेशेष्ववधिरुत्पद्यते स आत्मनः पर्यन्ते स्थित इतिकृत्वा अन्तगत इत्यभिधीयते, तैरेव पर्यन्तवत्रिंभिरात्मप्रदेशः साक्षादववोधात्, अथवा औदारिकशरीरस्यान्ते गतः-स्थितोऽन्तगतः, औदारिकशरीरमधिकृत्य कयाचिदेकया दिशोपलम्भात् , इदमपि सर्द्धकरूपकमवधिज्ञानं, अथवा सर्वेषामप्यात्मप्रदेशानां क्षयोपशमभावेपि औदारिकशरीरान्ते कयाचिदेकया दिशा यशादुपलभते सोऽप्यन्तगतः, आह-यदि सर्वेषामप्यात्मप्रदेशानां क्षयोपशमस्ततः सर्वतः किं न पश्यति ?, उच्यते, एकदिशैव क्षयोपशमसम्भवात् , विचित्रो हिदेशाद्यपेक्षया कर्मणां क्षयोपशमः, ततः सर्वेषामप्यात्मप्रदेशानामित्थंभूत एव स्वसामग्रीवशात् क्षयोपशमः संवृत्तो यदौदारिकशरीरमपेक्ष्य कयाचिद्विवक्षितया दिशा पश्यतीति, तथा चोक्तं नन्द्यध्ययनचूणौँ “ओरालियसरीरंते ठियं-गति एगहुँ, तंच आयप्पएसफडगावहिएगदिसोपलंभाओ य अंतगयमोहिनाणं भन्नइ, अहवा सवायप्पएसेसु विसुद्धेमुवि ओरालियसरीरगंण एगदिसि पासेण
For
Farm
~152