________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
Jan Education International
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्ति: [ ५४,५५ ], भाष्यं [-] वि० भा० गाथा [ ७०७], मूलं [- /गाथा - ] दीपरत्नसागरेण संकलित..आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
• उत्तरार्द्धे तिर्यग्मनुष्याणामबघेर्नानाविधसंस्थानभणनात् पूर्वार्डेन संस्थानप्रतिपादनं ययाक्रमं नारकभवन| पतिव्यन्तरज्योतिष्क कल्पोपपन्नकल्पातीत मैवेयकानुत्तरसुराणामवधेरवसातव्यम्, तथा च पूर्वार्द्धप्रतिपादितसंस्थानविषयं भाष्यम् - "नेरइय-भवण-वणयर- जोइस कप्पालयाणमोहिस्स । गेविज्जणुत्तराणन्य होंतागिइओ जहासंखं ॥ १॥” (वि. ७०७) तमो नाम काष्ठसमुदाय विशेषो यो नदीप्रवाहेण प्लाव्यमानो दूरादानीयते, स च आयतख्यत्रश्च भवति, तस्येवाकारो | यस्यासौ तप्राकारोऽवधिर्नारकाणां 'पल्लग'त्ति पलको नाम लाटदेशे धान्याधारविशेषः, स च ऊर्ध्वायत उपरि च | किञ्चित्सङ्गिशः, आकारशब्दः प्रत्येकमभिसम्बध्यते, पलकस्येवाकारो यस्यासी पलकाकारो भवनपतीनां, पटहः - आतोद्यविशेषः, स च किञ्चिदायत उपर्यधश्च समप्रमाणः, पटह एव पटहकस्तदाकारोऽवधिर्व्यन्तराणाम्, तथा उभयतो विस्तीर्णा चर्मावनद्धमुखा मध्ये सहसा ढक्काकारा शहरी- आतोद्यविशेषरूपा तदाकारोऽवधिर्ज्योतिष्कदेवानां मृदङ्गो-वाद्यविशेषः, स चाधस्ताद्विस्तीर्ण उपरि च तनुकः सुप्रतीतस्तदाकारोऽवधिः सौधर्मादिदेवानामच्युतदेवपर्यन्तानां, 'पुप्फ'चि पदेकदेशे पदसमुदायोपचारात् सप्रशिखा पुष्पभृता चङ्गेरी पुष्पचङ्गेरी परिगृह्यते, तदाकारोऽवधिर्यैवेयकविमाननिवासि - देवानां, 'जब' इति अत्रापि पदैकदेशे पदसमुदायोपचारात् यवनालक इति द्रष्टव्यम्, यवनालको नाम कन्याचोलकः, स च मरुमण्डलादिप्रसिद्धश्चरणकरूपेण कन्यापरिधानेन सह सीवितो भवति येन परिधानं न खसति, कन्यानां चैष मस्तकपदेशेन प्रक्षिप्यते, अत एवायमूर्ध्वः सरकञ्चुक इति व्यपदिश्यते, तथा च तप्रादिव्याख्यानं कुर्वन्नाह भाष्यकृत्“तप्पेण समागारो तप्यागारो स चाययत्तंसो । उढायओ य पलो, उवरिं च स किंचि संखित्तो ॥ २ ॥ नश्चायओ
For Pevate & Personal Use Ony
150~
wjanelibrary.org