________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
आव. मल. पोख
अवधी
॥ ६७ ॥
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्ति: [ ५४,५५ ], भाष्यं [-] वि० भा० गाथा [ ७०४], मूलं [- /गाथा - ] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
इह द्रव्यतः क्षेत्रः eat भवतश्चोत्कृष्टोऽवधिर्मनुष्येष्वेव न देवादिषु तथा मनुष्याश्च तिर्यञ्चश्च मनुष्यतिर्यञ्चस्तेषु मनुष्य तिर्यक्षु च जघन्यः, चशब्द एवकारार्थः, मनुष्यतिर्वक्ष्वेव जघन्यो, न नारकसुरेषु, तत्र प्रतिपातिष्ववधिषु मध्ये उत्कृष्टोऽवधिः प्रतिपतितुं शीलमस्येति प्रतिपाती लोकमात्र एव, मात्रशब्दोऽलोकव्यवच्छेदार्थः, इदमत्र हृदयम् - | यद्यवधिः प्रतिपतति तत उत्कर्षतो लोकमात्र एव, न लोकात् परं प्रदेशमात्रमपि पश्यन्, तथा चाह- 'परं अपडिवाई' ततो लोकात् परमेकमप्याकाशप्रदेशं पश्यन् नियमाद् अप्रतिपाती, क्षेत्रपरिमाणद्वारे प्रस्तुते प्रसङ्गतः प्रतिपात्यप्रतिपातिस्वरूपाभिधानमदुष्टमेव, विनेयजनप्रतिपत्तिलाघवात् उक्तं क्षेत्रपरिमाणद्वारम् १ ॥ अधुना संस्थानद्वारमभिधित्सुराह - fuबुगागार जहणो, बट्टो उक्कोसमायतो किंचि । अजहण्णमणुक्कोसो य, खेत्ततोऽगसंठाणो ॥ ५४ ॥ स्तिबुक:- उदविन्दुस्तस्यैवाकारो यस्यासौ स्तिबुकाकारो जघन्यावधिः, तमेव स्पष्टयति-वृत्तः, सर्वतो वृत्त इति भावः, पनकक्षेत्रस्य वर्त्तुलत्वाद्, उत्कृष्टः - परमावधिः, आयतः - प्रदीर्घः, किञ्चित् - मनाक् वह्निजीवसूच्या अवधिमच्छरीरस्य सर्वतो स्वाम्यमाणया व्याप्यमानस्य क्षेत्रस्य एतदाकारभावात् उक्तं च "पणको थिबुगागारो, तेण जहन्नावही तदागारो । | इयरो सेढिपरिक्खे तो सदेहाणुवत्तीए ॥१॥ (वि.७०४) तथा 'अजघन्योत्कृष्टश्च' न जघन्यो नाप्युत्कृष्टः अजघन्योत्कृष्टः, चशब्दोऽवधारणे, अजघन्योत्कृष्ट एव, 'क्षेत्रतोऽनेकसंस्थानः' अनेकानि संस्थानानि यस्यासावनेक संस्थानः, एवं तावज्जाघन्योत्कृष्टाषधिसंस्थानमभिहितम् ॥ सम्प्रति विमध्यमावधिसंस्थानप्रतिपादनार्थमाह
तप्पागारे पल्लग - पडग-सरि-मुइंग- पुष्फ-जवे । तिरिय-मणुपसु ओही, नाणाविहसंठिओ भणिओ ॥५५॥
Jan Education International
For Pavoce & Personal Use Ony
~149~
उत्कृष्टप्रतिपाती
गा. ५३
॥ ६७ ॥
www.sanelibrary.org