________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप अनुक्रम
[-]
मा.सु. १२
Jan Education fr
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्ति: [ ५३ ], भाष्यं [-] वि० भा० गाथा [ ७०१ ], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
सवेयानि च तानि योजनानि च सवेययोजनानि, खलुशब्द एवकारार्थः स चावधारणे अस्य च उभयथा सम्बन्धं उपदर्शयिष्यामः, देवानामर्द्धसागरे पदेकदेशे पदसमुदायोपचारात् अर्द्धसागरोपमे न्यूने आयुषि सति, किमुक्तं भवति, १ - अर्द्धसागरोपमे न्यूने आयुषि सति देवानां सङ्ख्वेययोजनान्येवावधिक्षेत्रं, तथा देवानां सवेययोजनान्यवधिक्षेत्रमर्द्धसागरोपमे न्यून एवायुषि सति, न परिपूर्णे नाप्यधिके इति, ततः परं सम्पूर्णार्द्धसागरोपमादावायुषि पुनरसयेयानि योजनान्यवधिक्षेत्रमवसेयम् ऊर्ध्वमधस्तिर्यक् च संस्थानविशेषाद्वक्ष्यमाणाद् भावनीयम् ॥ उक्तं उत्कृष्टमवधिक्षेत्रम्, अथ जघन्यमाह - 'जहण्णय मित्यादि, जघन्यमवधिक्षेत्रमिति देवानामिति वर्त्तते, पञ्चविंशतिस्तुशब्दस्य एवकारार्थत्वात् पञ्चविंशतिरेव योजनानि तानि च दशवर्षसहस्रस्थितीनां भवनपतिव्यन्तराणामवसातव्यानि, 'पणबीस जोयणाई दसवाससहस्सिया ठिई जेसि' मिति वचनात्, ज्योतिष्काः पुनरसङ्ख्येय स्थितिकत्वाज्जघन्यतोऽपि सत्येययोजनप्रमितान् सोयान् द्वीपसमुद्रान् अवधिज्ञानतः पश्यन्ति, उत्कर्षतोऽपि सोययोजनप्रमितानेव सत्येयान् द्वीपसमुद्रान्, केवलमधिकतरान् उक्तं च प्रज्ञापनायाम् " जोइसिया णं भंते! केवइयं खित्तं ओहिणा जाणंति पासंति ?, गोयमा ! जहन्नेणवि संखिज्जे दीवसमुद्दे उक्कोसेणवि संखिजे दीवसमुद्दे” भाष्यकारोऽप्याह- “दुविहोऽचि जोइ[सि]याणं, संखेजो ठिइविसेसेणं ।” (वि. ७०१ ) अत्र सङ्ख्येयः सङ्ख्येययोजनप्रमित सङ्ख्येय द्वीपसमुद्रविषयः स्थितेर्विशेषात् स्थितेरसवेयत्वादित्यर्थः ॥ अथ अयमेव चावधिर्येषामुत्कृष्टादिभेदभिन्नो भवति तानुपदर्शयन्नाह“उक्कोसो मणुपसं, मणुस्सतेरिच्छिपसु य जहण्णो । उक्कोस लोगमित्तो परिवाह परं अपडिवाई ॥ ५३ ॥”
For Peace & Personal Use Only
148~