________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
Jan Education Inter
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्तिः [४४] भाष्यं [-] वि० भा० गाथा [-] मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक” निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
"एगपएसोगाढं, परमोही लहइ कम्मगसरीरं । लहर अ अगुरुअलहुअं तेअसरीरे भव" ॥ ४४ ॥ प्रकृष्टो देशः प्रदेशः एकश्चासौ प्रदेशच एकप्रदेशः तस्मिन्नवगाढं व्यवस्थितं एकप्रदेशावगाढं - परमाणुव्यणुकादि द्रव्यं, परमश्चासाववधिश्च परमावधिः उत्कृष्टावधिरित्यर्थः, लभते पश्यति, अवध्यवधिमतोरमेदोपचारादवधिः पश्यतीत्युक्तम्, तथा कार्मणशरीरं च लभते आह-परमाणुव्यणुकादिकं द्रव्यमनुक्तं कथं लभ्यते ? यावता एकप्रदेशावगाढं | कार्मणशरीरमित्युपात्तमेव कस्मान्न योज्यते ?, तदसम्यक्, कार्मणशरीरस्य जीवप्रदेशानुसारितया सयातीत प्रदेशावगाहिस्वेनैकप्रदेशावगाढत्वायोगात्, लभते चागुरुलघु चशब्दाद् गुरुलघु च जात्यपेक्षया सर्वमे (त्रै) कवचनम्, ततः सर्वाण्यप्ये|कप्रदेशावगाढानि कार्मणशरीराणि अगुरुलघूनि गुरुलघूनि च द्रव्याण्यसौ पश्यतीति प्रतिपत्तव्यमिति, तथा तैजसशरीरविषयेऽवधौ कालतो भवपृथक्त्वं तेनासत्येयेन कालेन विशिष्यते, भवपृथक्त्वमध्य एव स पल्योपमासोयभागः कालो नाधिकः, एतन्मध्ये एव च भवपृथक्त्वं न तदतिक्रमेऽपीति । आह--नभ्वेकप्रदेशागाढस्य परमाण्वादेरतिसूक्ष्मत्वात् तदुपलम्भे वादराणां कार्मणशरीरादीनामुपलम्भो गम्यते एव ततः किमर्थं तेषां पृथगुपन्यासो १, व्यर्थत्वाद्, अथवा एकप्रदेशावगाढमित्यपि न वक्तव्यम्, 'रूपगतं लभते सर्व मित्यस्य वक्ष्यमाणत्वात्, तदयुक्तं सम्यग्वस्तुतत्त्वापरिज्ञानात्, तथाहि--यः सूक्ष्मं परमाण्वादि पश्यति तेन वादरं कार्म्मणशरीरादिकमवश्यं द्रष्टव्यम् यो वा बादरं पश्यति तेन सूक्ष्ममप्यवश्यं ज्ञातव्यमिति न कोऽपि नियमः, यतः - 'तेया भासादद्वाणमंतरा' इत्यादिवचनात् प्रथमोत्पत्ता व गुरुलघुद्रव्यं पश्यनप्यवधिर्न गुरुलघुपलभते, अन्यद्वा अतिस्थूरंमपि घटादिकं तथा मनःपर्यायज्ञानी मनोद्रव्याणि सूक्ष्माण्यपि
For Pivote & Personal Use Ony
140~
janelibrary.org